________________ 88 द्वितीयः स्वार्थानुमानपरिच्छेदः / [2.2. किं पुनस्तद् द्वैविध्यमित्याह स्वार्थ परार्थं च // 2 // स्वस्मायिदं स्वार्थम् / येन स्वयं प्रतिपद्यते तत् स्वार्थम् / परस्मायिदं परार्थम् / येन परं पतिपादयति तत् परार्थम् // सप्तमी[पाणिनि 2-1-40] इति योगविभागात्समासः / यद्वा नियतं विशिष्टं लक्षणं न शक्यं वक्तुम् / क्व च नियतमित्याशङक्योक्तं-प्रतिव्यक्तीति। व्यक्ती व्यक्तावित्यव्ययीभावः / यस्मादन्यथा प्रतिनियतलक्षणाख्यानस्याशक्यत्वं ततस्तस्मात् / लक्षणनिर्देशाइमेवेति लक्षणनिर्देशनिमित्तमेव। / एतेन यच्चोद्यते लक्षणमात्रे कथिते विशिष्टलक्षणमनुमानमेकमनेकं वाऽस्तु / किं तस्य प्रकारभेदकथनेनेति तत्परिहृतम् / यदि हि साधारणं लक्षणमभिप्रेत्येदमुच्यते तदा तन्नास्तीति किं कथ्येत / अथ विशिष्टं लक्षणं तदपि व्यक्तिभेदकथनमन्तरेण वक्तुं यदि शक्येत किं न कथ्येत। केवलमिदमेव नास्तीति / अत एवादावेव तदभिधानं न्याय्यम्, न तु पश्चादिति दर्शयितुमाह-अशक्यताम्-इति। तदन्तरेण लक्षणनिर्देशस्याशक्यता. ज्ञात्वा / चोऽवधारणे / प्राग्लक्षणकथनात्पूर्वम् / स्यादेतत् -स्वार्थानुमानमेवंलक्षणं परार्थानुमानमेवंलक्षणमिति किं विशिष्टं लक्षणं न शक्यते वक्तुम् ? एवमपि किमनुमानद्वैतं नावेदितं भवति येन ससंख्येया संख्या-अनुमानं द्विधा स्वार्थ परार्थ चेत्युच्यत इति ? सत्यमेतत् / केवलं नियमार्थमेतद् विभागवचनमिति ब्रूमः / अनुमानं द्विधा-द्विधैवैवमात्मकमिति कथं नाम [37b] प्रतीयतेति / इतरथेह तावदेतावदेव . व्युत्पाद्यतया प्रस्तुतम्, अन्यत्र पुनरन्यदप्यनुमानं व्युत्पाद्यमस्तीत्याशङ्का नाहत्य निराकृता स्यादिति // पूर्ववच्छेषवदादिरूपेण अन्यथाऽपि द्वैविध्यसम्भवात् संशयानः पृच्छति-किं पुनरिति / किमिति सामान्यात् पृच्छति / पुनरिति विशेषतः / स्वार्थशब्दस्य विग्रहं दर्शयति-स्वस्मायिति / अर्थशब्देन नित्यसमासादस्य पदविग्रहमाह / इदमित्यनुमानम् / स्वार्थमिति समस्तपदनिर्देश एषः / अस्य चात्मप्रतिपत्तिः प्रयोजनमित्यर्थः / अमुमेवार्थ स्फुटयन्नाह-येनेति / येनानुमानेन करण भतेनानुमाता स्वयं प्रतिपद्यते परोक्षमर्थमिति शेषः, प्रकरणलभ्यं वा / तत्स्वार्थज्ञानमात्मप्रतिपत्तिप्रयोजनमिति यावत् / अयमाशयः-त्रिरूपलिङगस्य ज्ञानं यस्य सन्तान उत्पद्यते तत्तदर्थमेव / तेनाऽन्यस्याप्रतिपत्तेः। ततः स्वार्थमुच्यते / न तु किञ्चिज्ज्ञानं क्वचित्पुंसि नियतमस्ति / यदपेक्षया स्वार्थमुच्येत / येन स्वयं प्रतिपद्यत इति ब्रुवतश्चायमभिप्रायः / यद्यपि प्रतिपत्तिरनुमानज्ञानात्मिका तथाप्येकस्यापि व्यवस्थाप्यव्यवस्थापनभावेन क्रियाकरणभेदो दर्शित इति सारूप्यभागः करणमनुमानम्, अधिगमरूपा फलावस्था प्रतिपत्तिरिति /