________________ 2.3.] स्वार्थानुमानलक्षणंम् / तत्र' स्वार्थ त्रिरूपालिङ्गाद् यदनुमेये ज्ञानं तदनुमानम् // 3 // तत्र तयोः स्वार्थपरार्थानुमानयोर्मध्ये स्वार्थं ज्ञानं किंविशिष्टमित्याह-त्रिरूपादिति / त्रीणि रूपाणि यस्य वक्ष्यमाण लक्षणानि तत् त्रिरूपम् / लिङ्गयते गम्यतेऽनेनाऽयं इति परार्थमित्यस्य विग्रहमाह-परस्मायिति। पूर्ववदस्य पदविग्रहः। परार्थमिति समस्तं पदमुक्तम् / अस्य च परप्रतिपत्तिः प्रयोजनमित्यर्थः / अमुमर्थं येनेत्यादिना स्पष्टयति / येन वाक्येन करणेन परं प्रति वाच्यं प्रतिपादयति परोक्षमर्थ बोधयति तत् त्रिरूपलिङ्गाख्यानं वाक्यं परार्थमनुमानम् / अत्राप्ययमस्याभिप्रायः यद्यपि अभिधानरूपमप्यनुमानं न नियतं पुंसि तथाऽपि तत्परार्थमेव / तथाहि यद् यदुद्दिश्य प्रवर्तते तत् तदर्थमुच्यते / परमुद्दिश्य प्रवर्तते च शब्दो नात्मानम् / अतो नानवस्थितपारार्थ्यः शब्दः / प्रयोक्तसमीहाविषयस्यार्थस्य पर एव प्रयोजको यस्मादिति / परोक्षार्थप्रतिपत्तिफलत्वेन पारम्पर्येणाविशिष्टविषयत्वेऽपि स्वार्थादस्य पृथग्वचनम्, साक्षादनयोर्व्यापारभेदादिति च द्रष्टव्यम् / ननु च परार्थानुमानोत्पादकवाक्यवदस्ति किञ्चिद् वाक्यं यत्परप्रत्यक्षोपयोगि। यथा 'एष कलभो धावति' इति वाक्यम् / अतः परार्थानुमानवत्परार्थ प्रत्यक्षं किं न व्युत्पाद्यत इति ? अत्रोच्यते-परोक्षार्थप्रतिपत्तेर्या सामग्री-लिङ्गस्य पक्षधर्मता साध्यव्याप्तिश्च-तदाख्यानाद वाक्यमुपचारतः परार्थानुमानमुच्यते / न तु तत्र कथञ्चिदङ्गभावमात्रेण, स्वास्थ्यादेरपि तथा प्रसङ्गात् / इदं पुनः 'अयं कलभः' इत्यादिवाक्यं न प्रत्यक्षोत्पत्तेर्या सामग्रीन्द्रियालोकादि तदभिधानात्तन्निमित्तं भवत्तथा व्यपदेशमश्नुते येन व्युत्पाद्यतामप्यश्नुवीत / किं तर्हि ? कस्यचिद् दिदृक्षामात्रजननेन / यथा कथञ्चित्परप्रत्यक्षोत्पत्तावङ्गभावमात्रेण ताद्रूप्ये नेत्रोत्सवे वस्तुनि सन्निहितेऽपि कथञ्चित्पराङमुखस्य परेण यदभिमुखीकरणं [38a] शिरसस्तदपि वचनात्मकं परार्थप्रत्यक्षं व्युत्पादयितुर्युत्पाद्यमापद्येत / एतच्च कः स्वस्थात्मा मनसि निवेशयेत्। किञ्च भवतु तथाविधं वचनं परार्थं प्रत्यक्षम्। किनश्छिन्नम् ? तस्यापि व्युत्पादनार्हस्याव्युत्पादनात्प्रमाद एव महती क्षतिरिति चेत् / न तथारूपस्य व्युत्पादनम्, अविप्रतिपत्तेः / विप्रतिपत्तिनिराकरणेन हि स्वरूपप्रतिपादनं व्युत्पादनम् / न तु केचित् तथाविधे वचने परार्थप्रत्यक्षोपयोगिनि विप्रतिपद्यन्ते। येन तदपि व्युत्पाद्यत / परार्थानमाने 4 .......... वस्तु प्रतिपद्यमाना अपि तद्धर्मव्याप्तिव्यतिरेकाभ्यां निगदन्तो दृष्टाः, अविनाभावावचनात, उपनयसाध्यतदावृत्तिवचनानाञ्च प्रयोगादिति तद व्युत्पाद्यते / यदि तु तत्रापि न विप्रतिपघेरन् परे तदा तदपि नैव व्युत्पादितं स्याद, इत्यलमतिविस्तरेण / / .. इह यथैव स्वयं प्रतिपन्नः परोक्षार्थस्तथैव परस्मै प्रतिपाद्यत इति स्वार्थानुमानपूर्वकत्वात्परार्थानुमानस्य प्रथम स्वार्थानुमानमुक्तम् / यथोद्देशमेव च लक्षणं प्रणेयमिति स्वार्थानुमान तत्र त्रिरू. E 1 वक्ष्यमाणानि D 2 .मेयज्ञानं C 4 अस्पष्टम्-सं०