________________ द्वितीयः स्वार्थानुमानपरिच्छेदः। [2.4. लिङ्गम् / तस्मात् त्रिरूपाल्लिङ्गात् यत् जातं ज्ञानम् इति / एतत् 'हेद्वारेण विशेषणम् / तत् २त्रिरूपाच्च लिङ्गात् त्रिरूपलिनालम्बनमप्युत्पद्यत इति विशिनष्टि-अनुमेय इति / एतच्च विषयद्वारेण विशेषणम् / त्रिरूपाल्लिङ्गाद्यदुत्पन्नमनुमेयालम्बनं ज्ञानं तत् स्वार्थमनुमानमिति // लक्षणविप्रतिपत्ति निराकृत्य फलविप्रतिपत्ति निराकर्तुमाह प्रमाणफलव्यवस्थात्रापि प्रत्यक्षवत् // 4 // प्रमाणस्य यत् फलं तस्य या व्यवस्था "साऽत्रानुमानेऽपि 'प्रत्यक्ष इव प्रत्यक्षवत् वेदितव्या / स्यैवं लक्षणं तत्रेत्यादिनाऽऽदित उपदिष्टमाचार्येण तद् व्याचष्टे तत्रेति। स्वार्थपरार्थानुमानसमुदायात स्वार्थानुमानं स्वार्थत्वजात्या निर्धार्यते / तस्मात्त्रिरूपाल्लिङ्गाद यज्जातमिति व्याचक्षाणो मूले त्रिरूपाल्लिङ्गादिति या पञ्चमी सा गम्यमानजनिक्रियापेक्षया "जनिकर्तुः प्रकृतिः” [पाणिनि 1.4.30] इत्यनेन लब्धापादानसंज्ञकादपादान एवेति दर्शयति / हेतुद्वारेण जनकमुखेन / त्रिरूपाल्लिङ्गादिति चाचक्षाणेनाचार्येणैकद्विपदव्युदासेन षट्पक्षी प्रतिक्षिप्य सप्तमपक्षपरिग्रहेण लिङ्गस्य लक्षणमभिप्रेतं प्रकाशितमिति। यथा चैतत् तथा भट्टार्चटनिबन्धनमर्चटालोकसंज्ञितं विधास्यन्तो विस्तरेण स्पष्टयिष्यामः / अनुमेयग्रहणस्य व्याक्त्वं दर्शयति-त्रिरूपाच्चेति / चो यस्मादर्थे / इतिर्हेतौ / त्रिरूपलिङ्गालम्बनमिति धूमं दृष्ट्वा सर्वत्रायं वह्निनान्तरीयक इति ज्ञानं वाच्यम् / तद्धि परम्परया त्रिरूपाल्लिङ्गाज्जातमिति / इतिना विशेषणस्य स्वरूपमुक्तम् / विशेषितमेव ज्ञानम् / किम्पुनर्विशिष्यत इत्याह-एतच्चेति / चो यस्मात् / विषयद्वारेणावसीयमानविषयद्वारेण विशेषणं व्यवच्छेदकम् / अवयवार्थं व्याख्याय समुदायार्थं त्रिरूपेत्यादिना व्याचष्टे। अनुमेयो धर्मधर्मसमुदायः आलम्ब्यत इत्यालम्बनं यस्येति विग्रहः / , इतिर्वाक्यार्थपरिसमाप्तौ एवमर्थः सन्नापरेण सम्बद्धयते-एवमुक्तेन प्रकारेण लक्षणविप्रतिपत्ति निराकृत्येति / / मनु च प्रमाणस्य फलमिति यद्याचार्यस्य विवक्षितं धर्मोत्तरेण चैवं व्याख्यायते तदा प्रमाणभागव्यवस्थायां किमुक्तमाचार्येण, धर्मोत्तरेणापि 'नीलसारूप्यं व्यवस्थापनहेतुः प्रमाणम्' इत्युपरिष्टात् [पृ० 91] किमिति दर्शयिष्यते इति चेत् / नैष दोषः / नहि प्रमाणस्येत्यादिना 'त्रिरूपलिङ्गजं ज्ञानमित्यर्थः। हेतुः कारणम् / 2 ०षणम् / त्रिरूपा० CD . स्वार्थानु० D * प्रमाणफलमिति / प्रमाणस्य यत्-B C D १०स्थाऽत्रा० A B P H E ६.पि प्रत्यक्षवत् प्रत्यक्ष इव PHE