________________ 2.5.]. हेतोस्त्रीणि रूपाणि। यथा हिमालसरूपं प्रत्यक्षमनुभूयमानं नीलबोधरूपमवस्थाप्यते', तेन नीलसारूप्य व्यवस्थापनहेतुः प्रमाणम्, नीलबोधरूपं तु व्यवस्थाप्यमान प्रमाणफलम् तद्वद् अनुमान मौलाकारमुत्पवमानं मीलबोषल्पमवस्थाप्यते, तेन नीलसारूप्यमस्य प्रमाणम्, नील विकल्पमरूपं त्वस्या प्रमाणफलम् / सारूप्यवशाद्धि तन्नीलप्रतीतिरूप सिध्यति / नान्यथेति / / एवमिह संख्या लक्षण-फलविप्रतिपत्तयः। प्रत्यक्षपरिच्छेदे तु गोचरविप्रतिपत्तिनिराकृता। लक्षणनिर्देशप्रसङ्गन तु त्रिरूपं लिङ्ग प्रस्तुतम् / तदेव व्याल्यातुमाहत्रैरूप्यं पुनर्लिङ्गस्यानुमेये सत्त्वमेव, सपक्ष एव सत्त्वम् , असपने . चासत्त्वमेव निश्चितम् // 2 // रूप्यमित्यादि / लिङ्गस्य यत् रूप्यं यानि त्रीणि रूपाणि तदिवमुच्यत इति शेषः। किं पुनत्तत् त्रैरुप्यमित्याह-अनुमेयं वक्ष्यमाणलक्षणम् / तस्मिन् लिङ्गस्य सत्त्वमेवे निश्चितम्-एक रूपम् / यद्यपि चात्र निश्चितग्रहणं न कृतं तथापि अन्ते कृतं प्रक्रान्तयोर्द्वयोरपि रूपयोरपेक्षणीयम् / यतो न योग्यतया लिङ्ग परोक्ष'ज्ञानस्य निमित्तम्। यथा मौलस्य प्रमाणशब्दस्य फलशब्देन विग्रहो दर्शितः। किन्त्व[38b]र्थप्रदर्शनं कृतम् / एतच्चोपलक्षणं तेम फलस्य साधनं च यत्तस्यापि या व्यवस्था साऽपि गृह्यते। मूले तु द्वन्द्वसमास एवाभिप्रेतो वातिककारस्य / पूर्वनिपातविधेश्चानित्यत्वात् न फलशब्दस्य पूर्वनिपातः / अत एव विनिश्चयः-"न प्रमाणफलयोविषयभेदः" इति / ..... लक्षणगोचरफलविषय इति / नीलसारूप्यम् अस्पष्टनीलसारूप्यम्, अनुमानस्यापरोक्षीकरणाभावात्, विजातीयमात्रव्यावृतस्यानुमानेन प्रतीतेः। नीलप्रतीतिरूपं नीलविकल्पनरूपं सिद्ध्यति निश्चीयते // . ननु संख्यालक्षणफलविप्रतिपत्तय एवानुमानस्य निराकृता, न तु विषयविप्रतिपत्तिरित्याह-एवमिति / एवमनन्तरोक्तेन प्रकारेण इहानुमानपरिच्छेदे निराकृता इति शेषः, * 'वक्ष्यमाणं वा निराकृतेति पदं वचनविपरिणामेन सम्बन्धनीयम् / - रूप्यमित्यादिग्रन्थस्य यत उत्थानम्, तत् लक्षणेत्यादिना दर्शयति / प्रसङ्गन प्रस्तावेन यानि त्रीणि रूपाणि तान्येव तथेत्यावेदयति / तदिदं त्रैरूप्यमिति प्रकृतत्वात् शेषोऽध्याहारः / अबाधितवषयत्वाद्यनेकरूपसम्भवे पृच्छति किं पुनरिति / किमिति सामान्यतः पृच्छति / पुनरिति विशेषतः। कस्मात् पुनस्तदपेक्षणीयमित्याह-यत इति / परोक्षो योऽर्थस्तस्य यज्ज्ञानं तस्य / बीजं वैधर्म्यदृष्टान्तः। कस्मान्न तथेत्याह-दृष्टादिति / अप्रतिपत्तेः परोक्षार्थस्येति प्रकरणात् / यद्यज्ञातं लिङ्गं न परोक्षज्ञाननिमित्तं तर्हि पक्षधर्मतया ज्ञातमेवास्तु परोक्षप्रकाशनं ' नीलस्वरूपं C D २०रूपमेवावस्था० C . रूप्यं नीलब्यव० C रूपं त्ववस्था• D रूपत्वमवस्था० C ५०प्यं प्रमा० C ६.रूपं तु प्रमा० B D * पुनस्त्ररूप्यम्-A 8 परोक्षं ज्ञानस्य-C 9 पडिक्तबाह्य लिखित म पठ्यते---सं०