________________ 92 द्वितीयः स्वार्थानुमानपरिच्छेदः / [2.5. बीजमकरस्य। अदृष्टाद् धूमाद् अग्नेरप्रतिपत्तेः। 'नापि स्वविषयशानापेक्ष परोक्षार्थप्रकाशनं / यथा प्रदीपो घटादेः। उदष्टादप्यनिश्चितसम्बन्धावप्रतिपत्तेः४। तस्मात् "परोक्षार्थनान्तरीयकतया निश्चयनमेव लिङ्गस्य परोक्षार्थप्रतिपादनव्यापारः / नापरः कश्चित् / अतोऽन्वयव्यतिरेकपक्षधर्मत्वनिश्चयो लिङ्गव्यापारात्मकत्वादवश्यकर्तव्य इति सर्वेषु रूपेषु निश्चितग्रहणमपेक्षणीयम् / तत्र सत्त्ववचनेनासिद्धं चाक्षुषत्वादि निरस्तम् / एवकारेण पक्षकदेशासिद्धो निरस्तः / यथा चेतनास्तरवः स्वापादिति पक्षीकृतेषु तरुषु पत्रसंकोचलक्षणः स्वाप एकदेशे न सिद्धः। न हि सर्वे वृक्षा रात्रौ पत्रसंकोचभाजः किन्तु केचिदेव / सत्त्ववचनस्य तत किमन्वयव्यतिरेकनिश्चयेन तस्य? इत्याशक्याह-नापीति। लिडमिति सम्बध्यते / प्रदीपोऽपि दृष्टा[८]निश्चितादपि। न केवलमदृष्टादित्यपि शब्दः। यत एवं तस्माद हेतोः / अन्तरं व्यवधानम् , न तथा नान्तरम् / “न भ्राड्”[पाणिनि६.३.७१] इत्यादिसूत्रे नेति योगविभागानलोपाभावः। नान्तरे भव इति गहादित्वाच्छः। ततः स्वार्थिक: कन् / परोक्षस्य वक़्यादेर्नान्तरीयकोऽविनाभावी तस्य भावस्तत्ता तया निश्चयनम्-सर्वत्रायमेतदविनाभावीति विकल्पनम् / लिङ्गस्य गमकस्य व्यापृतं रूपं व्यापारः। तथानिश्चयारूढस्यव रूपस्य लिङ्गत्वात् / एवकारेण व्यवच्छिन्नमेवान्यस्य तद् व्यापाररूपत्वं स्पष्टार्थं नापर इत्यनेनानूदितम् / यत्पुनरत्राप्ययमेतन्नान्तरीयक इति ज्ञानं तदनुमानज्ञानमिति ज्ञेयम् / पूर्वकं तु लिङ्गज्ञानमिति / अतः सत्त्वेनानिश्चिताल्लिङ्गादनिश्चितसम्बन्धाच्चाप्रतिपत्तेः कारणादन्वयादिनिश्चयोऽवश्यकर्त्तव्यः। तथापि कथं कर्तव्य इत्याशक्य व्यतिरेकमुखेणोक्तमेव हेतुमन्वयमुखेनापि दर्शयन्नाह-लिङ्गति। लिङ्गव्यापारस्य परोक्षप्रतिपादने गमकव्यापारस्यात्मा स एव तथेति स्वार्थिकः कन् कर्त्तव्यः। तस्य भावस्तस्मादिति हेतुपदं कृत्वाऽयमुपसंहारः / सर्वेष्वनुमेयसत्त्वादिषु रूपेषु लक्षणेषु / [39a] सम्प्रत्येकैकस्य रूपस्य यद् व्यावत्यं तत्क्रमेण दर्शयितुमाह-तत्रेति। आदिग्रहणाद् व्यधिकरणासिद्धविशेषणासिद्धविशेष्यासिद्धानां सङग्रहः / अमीषामपि स्वरूपासिद्ध एवान्तर्भावात् / यथा तु प्रभेदो यथा वान्तर्भावस्तथोपरिष्टाद वक्ष्यामः। केचिदेव तिन्तिडिकाप्रभृतयः। अथापि स्यात् स्वापवत् धूमोऽप्ययमेकदेशासिद्ध एव। तथाहि पर्वतादिरिह पक्षस्तत्र च क्वचिदेव देशे सिद्धो न सर्वत्र / न च पर्वतादिरेकोऽवयव्यभ्युपगतः / ' ननु च यदा धूमस्वरूपमेव प्रत्यक्षेण ज्ञायते तदा परोक्षस्य निश्चायकं भवति / आह / -टि. 2 परोक्षप्रका० C धूमात्-टि० अग्ने:-टि. ०क्षार्थाना E दि निषिद्धम् B D ..सिद्धो यथा A NP सिद्धो निरस्तो हेतुः यथा B D EH.