________________ [ 1. 1, प्रथमः प्रत्यक्षपरिच्छेदः / 'तथा हि-पुरुषार्थोपयोगि सम्यग्ज्ञानं व्युत्पादयितव्यमनेन प्रकरणेनेति ब्रुवता . सम्यग्ज्ञानमस्य शब्दसंदर्भस्याभिधेयम्, तद्व्युत्पादनं प्रयोजनम्, प्रकरणं चेदमुपायो व्युत्पादनस्येत्युक्तं भवति / तस्मादभिधेयभागप्रयोजनाभिधानसामर्थ्यात् सम्बन्धादीनि उक्तानि भवन्ति / न त्विदमेकं वाक्यं सम्बन्धम्, अभिधेयम्, प्रयोजनं च वक्तुं साक्षात् समर्थम्। एकं तु वदत् त्रयं सामर्थ्यात् दर्शयति। तत्र चो यस्मादर्थे। कथं पुनरन्यस्योक्तावन्यदुक्तं भवतीत्याह–तथा हि इति / निपातसमुदायश्चायं यस्मादित्यस्यार्थे सर्वत्र वर्तते / पुरुषार्थो हेयोपादेयहानोपादानलक्षण उपयोगो व्यापारः / सोऽस्यास्तीति तथा।। एवं सति किं सिद्धमित्याह–तस्माद् इति / तच्छब्देनानन्तरोक्तो वाक्यार्थ: प्रत्यवद्र(म्रोष्टव्यः / अभिधेयभागोऽङ्ग एकदेशः / सम्बन्धादिभागापेक्षया / सम्बन्धादीत्यादिग्रहणेनाभिधेयप्रयोजनयोः संग्रहः / (5b) उक्तानीति उक्तानीव उक्तानि प्रकाशितानि / न तु तत्राऽभिधाऽस्य सम्भविनी। अथाभिधेयप्रयोजनं यथा वाक्येन साक्षादुच्यते, तथा सम्बन्धादीन्यपि किन्नोच्यन्त इत्याह-न विति। तुरवधारयति विशिनष्टि वा। अयमाशय :-यदि सर्वे पदार्थाः प्राधान्यमश्नुवीरन्, वाक्यमेव तदा विशीर्येतान्योन्याऽव्यपेक्षाभावेनैकार्थाप्रत्यायनात / ततो वाक्यमेकार्थमभिधेयतया उपादातं कल्प्यते नानेकम / यदि साक्षान्न समर्थम् / कथं नासमर्थम् ? अथासमर्थमेव / न साक्षात् समर्थमिति / तर्हि न वाच्यमिति / आह-एकं तु-इति / तुरत्रापिवद् ग्राह्यः। साक्षाद्वाच्यत्वेन एकं व्यवच्छिनत्ति / दर्शयति प्रकाशयति, तत्र वाक्यस्याभिधाव्यापारासंभवात् / अत एवोक्तानीवोक्तानीति तथाऽस्माभिर्व्याख्यातम्, अन्यथा तदनेन विरुध्येत। - ननु यदि नामाभिधेयादिकं वाक्यस्य प्रकाश्यम्, नाभिधेयम्, तथापि पदार्थेन तेनावश्यं भाव्यम् / तथा च कस्य किं वाचकं पदमित्याशङ्कयाह-तत्र इत्यादि-तेषु अभिधेयादिषु / 1 सर्वपुरुषार्थसिद्धिहेतुः सम्यग्ज्ञानम्। अस्मिन्नर्थे उच्यमाने कथं सम्बन्धादीन्युक्तानि-टि. 2 नन्वादिवाक्ये यथाऽभिधेयप्रयोजनमभिधत्ते एवं सम्बन्धादि किमिति न वक्ति ? इत्याह-टि० 3 यदि साक्षान्न वक्ति कथं तर्हि समर्थं तदर्शने इत्याह-टि. 4 अथ वात्तिकेन सामर्थ्यलब्धमभिधेयं प्रयोजनं चाह-टि.