________________ 1.1] . . प्रकरणस्याभिधेयप्रयोजनम् / 'अस्मिश्चार्थ उच्यमाने सम्बन्धप्रयोजनाभिधेयानि उक्तानि भवन्ति / भविष्यति / न चात्र प्रयोजनं प्रयोजकं वाच्यम्, उक्तन्यायात् / इहापि प्रवृत्तिसम्बन्धिन उपादानप्रसङ्गाच्च / न च राजशासनं सामान्य किञ्चिदस्ति येन भावप्रधानः प्रयोजनशब्दः कल्प्येत / तदिष्टौ पूर्वोक्तं दूषणं परावर्ततेति / सत्यम् / न पुरुषार्थसिद्धिहेतुत्वं सम्यग्ज्ञानस्य प्रयोजनमभिप्रेतम् / किन्तर्हि ? पुरुषार्थसिद्धिरेव / अशाब्दिकाऽसौ कथमुच्यतामिति चेत् / उच्यते / चशब्दोऽत्र यस्मादर्थे / ततो यस्मात् प्रकरणाभिधेयस्य सम्यग्ज्ञानस्य पुरुषार्थसिद्धिहेतुत्वमुक्तम्, तस्मात् प्रयोजनमुक्तमिति द्विरावर्तनीयम् / तच्चात्रार्थात् पुरुषार्थसिद्धिरेवावतिष्ठते / सम्यग्ज्ञानस्य तां प्रति हेतुत्वोक्तौ च सा प्रयोजनमुक्तेति किं साक्षाद्वाचकेन पदेन क्रियत इति भावः / एतावतैव तावदिदं समाधीयते। बहवः पुनरत्रायास्यन्ति / सर्वा पुरुषार्थसिद्धिर्यतो हेतुत्वात् तत् सर्वपुरुषार्थसिद्धि, तथाविधं हेतुत्वं यत्र प्रयोजनं तत् तथा। तच्च पुरुषार्थसिद्धिरेवेति। अनया व्युत्पत्त्या अनेन शब्देन सैवोक्ता / कस्य तादृशमित्यपेक्षायामिदमुक्तम्-प्रकरणाभिधेयस्य सम्यग्ज्ञानस्यति केचित् प्रतिपद्यन्ते। अन्ये त्वर्ष(श) आदित्वे प्रयोजनमस्यास्तीति मत्वर्थीयमतं विधाय प्रधानवनिर्देशं विवक्षित्वा प्रयोजनवत्त्वमिति प्रतिजानते / एवं चार्थ समर्थयन्ति-यत एव पुरुषार्थसिद्धिः सम्यग्ज्ञानसाध्या तत एव सा प्रयोजनम् / तस्यापि यदेव तां प्रति हेतुत्वं तदेव प्रयोजनवत्त्वमिति / एके तु यत: सम्यग्ज्ञाने सति पुरुषार्थसिद्धिहेतुत्वं व्यवस्थाप्यते, ततः प्रमाण-फलवद् व्यवस्थाप्य-व्यवस्थापनभावमाश्रित्येदमुक्तं ततो न किञ्चिदवद्यमिति मन्यन्ते / __ अपरे तु चशब्दं भिन्नक्रमं कृत्वा पुरुषार्थसिद्धिहेतुत्वमुक्तम्, प्रयोजनं चोक्तमिति योजयन्ति / . . इतरे तु पुरुषार्थसिद्धिहेतुशब्देन कारणे कार्यमुपचर्य पुरुषार्थसिद्धिमेवाभिदधति / अनन्योपायसाध्यतादर्शनार्थ चोपचारकरणं समादधते / केचित्तु निबन्धकृतः कथञ्चिदपीदं समर्थयितुमनीशानाः सहितशब्दपातात् प्रमादपाठ एवेति वर्णयन्ति / अत्र सारासारं सन्त एव विवेचयिष्यन्ति / स्यादेतत् / यथा प्रवृत्त्यङगतया अभिधेयप्रयोजनमुच्यते, तद्वत् सम्बन्धादिकमपि कि नोच्यत इत्याह-अस्मिश्चेति / 1 ननु अभिधेयप्रयोजनाभिधानेपि यावच्छास्त्रस्य सम्बन्धादीनि नोक्तानि तावत् प्रेक्षावन्तो न तत्र प्रवर्तन्ते इत्याह-त(अ)त्रेत्यादि / ननु तथाप्यस्मदुक्तस्य किमुत्तरमित्याह-अस्मिश्चार्थे—टि० 2 अभिधेयार्थेऽकथितान्यपि सामर्थ्यादुक्तानि भवन्तीत्यर्थः-टि. . 3 अभिधेयप्रत्यागते-टि. 4 पाणिनि 5. 2. 127