________________ प्रथमः प्रत्यक्षपरिच्छेदः / [1.1. यथा काकदन्तप्रयोजनाभावात् न तत्परीक्षा आरम्भणीया प्रेक्षावता / तस्मादस्य प्रकरणस्यारम्भणीयत्वं दर्शयता अभिधेयप्रयोजनमनेनोच्यते / यस्मात् सम्यग्ज्ञानपूर्विका सर्वपुरुषार्थसिद्धिः, तस्मात् तत्प्रतिपत्तये 'इदमारभ्यत इत्ययमत्र वाक्यार्थः / २अत्र च प्रकरणाभिधेयस्य सम्यग्ज्ञानस्य सर्वपुरुषार्थसिद्धिहेतुत्वं प्रयोजनमुक्तम् / यथेति सामान्येनोक्तस्यार्थस्य विषयोपदर्शने / यथैतद्दर्शितं तद्वत् सर्वं द्रष्टव्यमिति यथाशब्दार्थः / / तत्परीक्षेतीक्षेत्थमित्थञ्चेति कर्मोपदेशः / पदसंहतिरिति च बुद्धिस्थम् / परीक्षणं वा परीक्षा विमृष्यावधारणं तादात् शास्त्रमपि तथा / ___ ननु निष्प्रयोजनाभिधेयं मारम्भि, वचनेन त्वनेन किं क्रियत इत्याह-तस्माद् इत्यादि / यस्मान्निष्प्रयोजनाभिधेयं नारभ्यते तस्मादारम्भणीयत्वं दर्शयता आरम्भयोग्यमेवेदं मयारभ्यत इति प्रकाशयता, आरम्भणीयत्वे च दर्शिते श्रवणीयत्वमपि निमित्तसाम्याद दर्शितं भवतीति ते ' प्रवर्तिता भवन्ति / ____ननु च सम्यग्ज्ञानपूर्विका सर्वपुरुषार्थसिद्धिरित्यनेनैकदेशेनाभिधेयप्रयोजनमुक्तम्, न समुदितेन / तत् कथमनेन वाक्येनोच्यत इत्युच्यते / उच्यते / वाक्यं हि नामैकस्मिन्नर्थे प्राधान्येन प्रपिपाद्ये गुणगुणिभावमनुभवतामर्थद्वारेणान्योन्यापेक्षिणां सम्बद्धानां पदानां समूह उच्यते / तत्र यदि सर्वेषां पदार्थानां प्राधान्यं स्यात् तदा परस्परानुपकारात् सम्बन्ध एव पदानां न स्यादिति वाक्यरूपतैव हीयेतेति सूक्तमनेनेति / अभिधेयप्रयोजनाभिधानमेवास्य सम्यग्ज्ञानेत्यादिपदसमूहात्मकस्य यथा तथा यस्मादित्यादिना कष्ठोक्तं करोति / तस्य सम्यग्ज्ञानस्य प्रतिपत्तये शिष्यस्येत्यर्थात् / एतच्च तद् व्युत्पाद्यत इत्यस्य सामर्थ्यावस्थितार्थकथनं द्रष्टव्यम् / इतिना वाक्यार्थस्य स्वरूपम्, इदमा च बुद्धिसिद्धत्वेन तदेवाङगुलीव्यपदेशयोग्यमिव दर्शयति / अनेन च पुरुषार्थसिद्धरुपेयत्वात् प्राधान्यम्, प्रतिपाद्यमानस्य च सम्यग्ज्ञानस्य तदुपायत्वादप्राधान्यम् / अत एव चार्थेन न्यायेन पुरुषार्थसिद्धेर्वाक्यार्थत्वम् / शाब्दया तु वृत्त्या शिष्यसम्यग्ज्ञानविषया व्युत्पत्तिक्रिया वाक्यार्थ इति दर्शितम् / ... ननु सम्यग्ज्ञानेत्यादिना वाक्येन सम्यग्ज्ञानस्य पुरुषार्थसिद्धौ हेतुभावः परं प्रदर्शितो न पुनरिदं तस्य प्रयोजनमिति दर्शितम् / तस्यैव प्रयोजनमनेनोच्यत इति चोक्तम् / तत् कथं युज्यते ? अथ नै(चैतावतापि न ज्ञायते कस्य किं तदभिधेयं किञ्च तस्य प्रयोजनमित्याशङ्कयाह-अत्र चेत्यादि। ___ अथ सम्यग्ज्ञानस्य पुरुषार्थसिद्धिहेतुत्वं प्रयोजनमित्यवद्यम् / मूलविरोधाद् युक्तिविरोधाच्च। तथा हि पुरुषार्थसिद्धिमेवाचार्गीयं सम्यग्ज्ञानेत्यादिवचनं प्रयोजनमनुजानाति न तु पुरुषार्थसि (5a)द्धिहेतुत्वम् / अवयवार्थव्याख्याने तस्य तामेव प्रयोजनतया व्यक्तीकरिष्यति। न च हेतुत्वं हेतोभिन्नमिष्यते युज्यते वा। तत् कथमस्यैव सम्यग्ज्ञानस्य प्रयोजनं तत्प्रतिपत्त्यर्थमिदम् A.E.N.H.P २'अत्र च' एवंप्रकारवाक्ये-टि.