________________ प्रकरणस्वाभिधेयप्रयोजनम् / द्विविधं हि प्रकरपशरीरम्-शब्दः, अर्थश्च' / तत्र शब्दस्य स्वाभिधेयप्रतिपादनमेव प्रयोजनम् / नान्यत् / अतस्सन्न निरूप्यते / अभिधेयतु यदि निष्प्रयोजनं स्यात् तदा तत्प्रतिपसये शब्दसंदर्भोऽपिनारम्भणीयः स्वात्। - मसू च नायं प्रत्यस्तमिताषयवार्थः संज्ञाशब्दः / किं तर्हि ? प्रयुज्यतेऽनेन इति, प्रयोजयतीति वा व्युत्पत्त्या फलेऽपि वर्तते / तत् कथमेतद् व्याख्यायत इति चेत् / सत्यमेतत् / केवलं न पुरुषार्थसिद्धिहेतुत्वं सम्यग्ज्ञानस्यात्मन एव प्रयोजक किन्तु पुरुषस्य / तत्र चोक्ता दोषमात्रा / अभिधेये प्रयोजनमिति विग्रहे च भूयान् दोषो दर्शितः। तस्मात् तथाभूतव्युत्पत्तिनापि प्रयोजनशब्देनात्र न तथाभूतं प्रयोजकं वाच्यम्, अपि तु फलमेवेति सर्वमवदातम् / नन च प्रकरणे श्रोतन प्रविवर्तयिषुरयमभिधेयप्रयोजनमभिधत्ते तदनेनास्यैव तदाख्यातमचितम / तच्च यथास्वमभिधेयप्रत्यायनलक्षणमित्याशङक्याह--द्विविधं हि इत्यादि / हिर्यस्माद् द्विप्रकारं प्रकरणस्य शरीरं स्वभावः / तदुक्तं काव्यालङ्कारे-"शब्दार्थों सहितौ काव्यम्"९ इति / तस्मादभिधेयप्रयोजनमुच्यत इति / कथं द्वैविध्यमित्याह-शब्द इति / चशब्देन सहार्थं प्रकरणशरीरत्वेन समुच्चिनोति / एतदुक्तं भवति-शब्दार्थयोरवच्छेद्यावच्छेदकत्वेन स्थितयोः प्रकरणत्वं वान्यथेत्युभयस्वभावत्वात् प्रकरणस्याभिधेयप्रयोजनाभिधाने प्रकरणस्यैवाभिहितं भवतीति / , .. यद्येवं शरीरत्वाविशेषात् अभिधेयस्येवाभिधामात्मनोपि तत् किन्नोच्यते? किञ्च, न निष्कृष्टरूपेऽभिधेये पुरुषः प्रवर्तते किन्तु अन्य एव श्रवणलक्षणां प्रवृत्तिमाचरति अभिधेयज्ञानाथ। तदस्यैव प्रयोजनं वाच्यमिति पूर्वपक्षद्वितयं पश्यन्नाह-तति निर्धा[4b]रणे चैसत् / चान्यशिति पुरुषप्रवृत्त्युपयोगि / 'अयमस्याशयः-न हि शब्दस्य स्वार्थप्रत्यायनलक्षणं फलमस्तीति शब्दसंदर्भ आरभ्यते श्रयते वा. तस्य काकदन्तपरीक्षासाधारणत्वेनागण्यमानत्वात् / किन्तहि ? तदर्थस्य सप्रयोजनत्वेन। अतः किमनेनोक्तेनापीति ? तर्हि अभिधेयस्यापि तत् किमुच्यत इत्याह-अभिधेयं तु इत्यादि / तुरभिधानादभिधेयं मेदवदर्शयति / अपिशब्दो मारमणीय इत्यस्मात्परो प्रष्टव्यः / तदयमर्थ:-तत्प्रतिपत्तये शब्दानां सन्दर्भो नारम्भणीयोऽपि स्यात्, कि पुनः श्रवणीय इति / १श्चेति-E. H. N. P. 2 शब्दस्याभिधे B.C.D. 3 तन्निरूप्यते A 4 अथाभिधेयस्यापि कि प्रयोजनाभिधानेनेत्याह-टि. '5 अभिधेये तु निष्प्रयोजने तत्प्रति-B. D. अभिधेयप्रतिपत्तये-टि०। - प्रयोजनं तदा-C 8 अपिशब्दादर्थसन्दर्भ( )ऽपि-टि० ... काव्यालंकारवृत्तौ-"काव्यशब्दोऽयं गुणालङ्कारसंस्कृतयोः शब्दार्थयोर्वर्तते” 1.1. इति दृश्यते, म तुमूले।