________________ 6 प्रथमः प्रत्यक्षपरिच्छेदः / न्धित्वेऽस्य समर्थयोरेका भावो भवतीति / न हि यशदतपुत्रो मृत्यत्वादिना स्मेण देवदत्तसम्बन्धी भवन्देवदत्तपत्र इति षष्ठीसमासस्य विषयो भवितुमर्हति / अथ भावप्रधानत्वान्निर्देशस्य प्रयोजनं प्रयोजकत्वमित्यर्थः। तच्चाश्रितस्य प्रयोजकतया भवति सम्बन्धीति समर्थविधिः कल्प्यते / ननु यदि सम्यग्ज्ञानगतं पुरुषार्थसिद्धिहेतुत्वं प्रयोजनं प्रयोजकत्वं तहिं सम्यग्ज्ञानं प्रयोजनमित्यापन्नम् / यतो न प्रयोजनत्वमेव प्रयोजनं भवितुमर्हति / न च सम्यग्ज्ञानेन प्रयुक्तः पुरुषः सम्यग्ज्ञाने प्रवर्तते, किन्तु पुरुषार्थसिद्धिहेतृत्वेन / तत् कथं प्रयोजनं भवितुमर्हति ? किञ्च वृद्धव्यवहारो हि शब्दार्थव्यवहारभूमिः। न च वृद्धैः प्रयोजकः सत्यपि प्रयोजयितृत्वे प्रयोजनमुच्यते / अन्यथा सम्यग्ज्ञानं व्युत्पद्यमानानामात्मानं व्युत्पादकं कर्तुं प्रवर्तमान आचार्यः प्रयोजक इति सम्यग्ज्ञानव्यत्पत्तेः प्रयोजनमच्येत / योऽपि कटं कुर्वन्तं कर्त प्रयुङक्ते सोऽपि तत्प्रयोजनमुच्यतेत्येवंवादी न लौकिको न परीक्षक इत्युपेक्षणीय एव। ___ अपि च किमेतदन्यथा नोपपञ्चत एव येनैवं मृत्वा शीवोपपाद्येत / न चैवम्, अन्यथापि सूपपादत्वात् / प्रयोजकत्वमिति निर्देशे च धर्मोत्तरः किं गौरवं पश्यति येनैवमवाचकमाचक्षीत ? कथञ्च प्रकरणस्येति दुरुपपाद प्रयुजीत ? किञ्च यदीप्सजिहासन् वा पुरुषः प्रवर्तते तदुपादानपरित्यागाभ्यां प्रवर्तितो भवति / यथाह अक्षपादः—'यमर्थमधिकृत्य प्रवर्तते तत् प्रयोजनम्" न्यायसू० 1.1.24 ] इति / अधिकृत्य उद्दिश्येत्यर्थः / न च सम्यग्ज्ञानस्य भिन्न सदपि पुरुषार्थसिद्धिहेतुत्वम् ईप्सन् जिहासन् वा प्रवर्तते / किन्तर्हि ? हिताहितप्राप्तिपरिहारावुद्दिश्यति तावेव प्रयोजने युक्ते। किञ्चिदजिहासोरनुपादित्सोरर्थनिरीह[4a] स्य सत्यपि पुरुषार्थसिद्धिहेतुत्वे अप्रतनात् / स्मरणादभिलाषेण व्यवहारः प्रवर्तते इत्यलं शब्दमात्रसमर्थनदृष्टेरर्थतत्त्वानवगाहिनो वचनेऽन्धादरेण / अथाभिषेकप्रयोजनं प्रवर्तकमिति समस्यते। ततोऽयमदोष इति चेत् / तदवद्यम् / न हि पुरुषार्थसिद्धिहेतुत्वेन प्रयुक्तः पुरुषः सम्यग्ज्ञानलक्षणे अभिधेये प्रवर्तते किन्तु प्रकरणे प्रवर्तते- ग्रन्थश्रवणलक्षणां प्रवृत्तिमनुतिष्ठति / - अथ ग्रन्थस्य शब्दार्थस्वभावत्वाद् / एवमप्यसौ शब्देऽभिधेये च समुदाय प्रवृत्तो भवति / तद् ग्रन्थस्य प्रकरणस्येति षष्ठी कथम् ? अथ पुनरयमर्थोऽस्य प्रकरणस्याभिधेयेऽर्थादभिधानाभिधेयसमुदाये प्रयोजनं प्रवर्तकमिति / तथा च प्रकरणस्य प्रकरणे प्रवर्तकमित्यसङ्गतमुक्तं स्यात् / यदि चोक्तया व्युत्पत्त्या प्रयोजनशब्देन प्रयोजकं तथाभूतमस्य बुबोधयिषितं भवेत् तदा सम्यग्ज्ञानपूर्षिकेत्यादिना अभिधेयप्रयोजनमुच्यत इत्युक्तं स्यात् / मुख्यश्च सम्बन्धी . पुरुषः पुरुषस्येति दर्शितः स्यात् / न चैवम्, तस्मात् प्रयोजनशब्देन फलमेवास्याभिप्रेतमत्रोत्तरत्रापि / अथोच्यते। फलार्थी चेत् प्रतिपत्ता फल एव किं न प्रवर्तते ? किं श्रमः सम्यग्ज्ञान इति? हेयोपादेययोर्हानोपादानलक्षणफलार्थिव तन्निबन्धनं ज्ञानं मृगयते। अन्यथा विसंवादनमात्मीयमाशङ्कमान इति का क्षतिः ? फलपक्षे तु पुरुषप्रवृत्त्युपयोगि चास्याभिधेयमिति तद् दर्शितं भवति /