________________ 1.1.] प्रकरणस्याभिधेयप्रयोजनम् / सम्यग्ज्ञानपूर्विके 'त्याविनाऽस्य प्रकरणस्याभिधेयप्रयोजनमुच्यते / अथवाऽऽगमिकानां मतेन निरुपधिशेषे निर्वाणधातौ परिनिर्वृतो भगवान् / परिनिर्वतस्यास्य प्रवचनमयमेव वविद्यत इति आगमिको वाग्विजयमेव प्रतिपादयते स्मेति / सम्यग्ज्ञानेत्यादिना प्रकरणस्य यत् प्रयोजनं सम्यग्ज्ञानव्युत्पत्तिः, तस्या यत् प्रयोजनं पुरुषार्थसिद्धिरूपं तदुच्यते। न च सम्यग्ज्ञानव्युत्पत्तेः सम्यग्ज्ञानपरिज्ञानं प्रयोजनं न पुरुषार्थसिद्धिरिति शक्यमभिधातुम् / विप्रतिपत्तिनिराकरणेन स्वरूपप्रतिपत्तिरि(र)व हि सम्यरज्ञानस्य व्युत्पत्तिः / सा कथमात्मन एव प्रयोजनं भवेदित्यभिप्रायेण व्याख्यातवन्तौ विनीतदेव-शान्तभद्रौ। तद्वयाख्यानमवमन्यमानोऽभिधेयप्रयोजनमुच्यते इति व्याचष्टे / अवज्ञाने चायमाशय :-अस्येदं प्रयोजनमिति खल्वन्वय-व्यतिरेकाभ्यामवधार्यते / नान्यथा / इयञ्च स्वरूपा(प)प्रसिद्धिः सम्यग्ज्ञानव्युत्पत्तिमन्तरेणापि गोपालाङ्गनादीनां भवन्ती सति सम्यरज्ञानि(ने), सत्यामपि तद्व्युत्पत्ती असति सम्यग्ज्ञाने मनीषिणामभवन्ती न तव्यत्पत्तेरन्वयव्यतिरेकावनुविधत्ते / किन्तर्हि ? सम्यग्ज्ञानस्येति तस्यैव प्रयोजनं भवितुमर्हतीति / सम्यग्ज्ञानेत्यादिना वाक्येन करणेन प्रकरणाभिधेयस्य सम्यग्ज्ञानलक्षणस्य प्रयोजनं दृष्टं पुरुषार्थसिद्धिलक्षणमुच्यते वात्तिककृता कर्रेत्यर्थात् / ननु च यत्राभिधाव्यापारः समाप्यते स वाक्यार्थः। न चासौ पुरुषार्थसिद्धौ विश्राम्यति / किं तहि ? श्रोतुः सम्यग्ज्ञानव्युत्पत्तौ। तत् कथं सा वाक्यार्थत्वेनोच्यते। उच्यते। यद्यपि शब्दाभिधाव्यापारापेक्षया तत् सम्यग्ज्ञानं व्युत्पाद्यते शिष्य इति शिष्यसम्यग्ज्ञानविषया व्युत्पत्तिक्रिया प्राधान्याद्वाक्यार्थः, तथाप्यस्य तात्पर्यार्थसंभवे तन्निरूपणेनेदमुच्यते / तथा हि तद्व्युत्पत्तिमेवासौ किमिति कार्यते ? यतः सम्यग्ज्ञानपूर्विका सर्वपुरुषार्थसिद्धि२...... ...... .........."मुच्यते। यत्र पुनरभिधाविषय एवार्थः संभवी न तु तात्पर्यार्थो [3b].-स्तत्र स एव वाक्यार्थः कल्प्यते / द्वितयसंभवे तु यत्परं वाक्यं तथा च तस्यार्थ इत्यार्थेन न्यायेनाभिधेयस्य. प्रयोजनं पुरुषार्थसिद्धिर्वाक्यार्थत्वेनोच्यत इति व्याख्यायत इति / केचित् पुनरिदं धर्मोत्तरीयं वाक्यमन्यथा व्याचक्षते / नात्र प्रयोजनशब्देन फलमभिप्रेतं किन्तु प्रयुज्यते प्रवर्त्यतेऽनेनेति, प्रयोजयतीति वा प्रयोजनम् / तच्च पुरुषार्थसिद्धिहेतुत्वम् / अभिधेयस्य हि सम्यग्ज्ञानस्य पुरुषार्थसिद्धिहेतुत्वेन प्रयुक्तः पुरुषः प्रवर्तत इति / उत्तरत्रापि प्रयोजनमिदमेव विवक्षितम् / अत एव-अत्र चेत्यादिवाक्ये सर्वपुरुषार्थसिद्धिहेतुत्वं प्रयोजनं प्रवर्तकमुक्तमिति स्पष्टीकरणं घटत इति / तच्च नातिश्लिष्टमुत्पश्यामः / तथा हि अत्र च प्रकरणाभिधेयस्य सम्यग्ज्ञानस्य पुरुषार्थसिद्धिहेतुत्वं प्रयोजनमुक्तमिति वक्ष्यमाणेन व्यक्तीकृतत्वादिहापि अभिधेयस्य प्रयोजनम् इति षष्ठीतत्पुरुषोऽवश्यकार्यः। तथा चायमसमर्थः पदविधिर्भवेत् / तद्धि पुरुषार्थसिद्धिहेतुत्वं नाभिधेयस्य सम्यग्ज्ञानस्य प्रवर्तकमपि तु पुरुषस्य / तत् कथमभिधेयपदेन समस्येत प्रयोजनपदम् ? न च केनचिद्रूपेणाभिधेयसम्ब लेखोऽत्र घृष्टः / 1 पूर्विका सर्वेत्यादिना-A.P.E. एकोऽक्षरोत्र वर्तते किन्तु स सम्यङन पठ्यते /