________________ प्रथमः प्रत्यक्षपरिच्छेदः / 1.1.] - तात्पर्यार्थ:-जगदेवानन्यसत्त्वनेयं स्वयमेव तथा तत्तदाचरति येन तथा संसारे संसरति / न तु . परप्रेरितं यथाऽन्ये मन्यन्ते "अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः / ईश्वरप्रेरितो गच्छेत् स्वर्ग वा स्व(श्व)भ्रमेव वा // " [महाभा०वन० 30. 28.] इति / इतरथा जातिव्यसनाश्रयस्येति तदन्यविशेषणसहितमेव ब्रूयादिति / किंभूतस्य सुगतस्य ? रागादीनां क्लेशानाम् अरातेः शत्रोः सत्कायदृष्टिविगमेन / तेन तेषां स्वसंताने समलमन्मलितत्वात् / यत एव भगवान् रागाद्यरातिः, जगच्च जातिव्यसनप्रबन्धप्रसूतिहेतुः, अत एवासौ ततः प्रकृष्टो भवति विजेता तस्य / अथवा रागाधरातेरिति जगतो विशेषणम् / रागादयोऽरातयः प्रतिपक्षा नित्यमुपघातका यस्येति कृत्वा। तदा तु / तद्विजेता भगवान् सुगतत्वादेव बोद्धव्यः / जगतो ये रागादयस्तेषामरातेरित्यादिव्याख्यानं तु क्लिष्टत्वात् नोक्तम् / / किंविशिष्टा वाच इत्याह-मन इत्यादि। सदसत्यर्थविवेकविबन्धकत्वात् तम इव तमोऽज्ञानमविद्या। तच्च मनसो विकल्पविज्ञानस्य कयाचिद्वचपेक्षया धर्म इव भिन्न: कथ्यते / वस्तुतस्तु क्लिष्टमेव ज्ञानमविद्या / यद्वा क्लिष्टं मन एव तम इव तमः पूर्ववत् / केचित्तु मनस्तम इति शब्दसमुदायमज्ञानार्थवाचकमाचक्षते / तस्य तानवं तनुत्वं मन्दीभवनमित्यर्थात् / तद् आवधानाः कुर्वाणाः / तानवग्रहणेन चेदमाचष्टे-न भगवतो वाचः सर्वथा जगदज्ञानमुपघ्नन्ति, तच्छ्रवणमात्रेण मोहहान्या मुक्तत्वात् मार्गभावनावैयर्थ्यप्रसङ्गात् / किन्तु कियन्तं कालमालोच्यमानाः समुदाचारतो मोहस्य मान्द्यापादनेन तं तनकूर्वन्तीति / मूढत्व ............. अथवा अन्यथा व्याख्यायते-ता वाचस्तमो जयन्ति अभिभवन्ति'....... '" [3a].... ........."मोहप्रचारम् आवधानाः। शेषं समानं पूर्वेण / यद्वा मनसि तमो यस्य स मनस्तमा मूढ उक्तः। तस्य भावो मनस्तमस्ता। तस्या अनवो निष्ठा / तथाहि नतिर्नवः / तद्विरुद्धन ........."तमावधानाः ....................."प्रवर्तनात् / शेषं समानं पूर्वेणेति व्याख्यातः श्लोकः / केवल केवलमिदमालोच्यताम्-तथागतमभिस्तुवता धर्मोत्तरेणास्यैव विजयो मुख्यवृत्त्या किं न कथितः ? किं पुनर्मिविशेषणत्वेनानुषङ्गतः प्रतिपादित इति ? अत्र समाधीयते / आचार्यश्रीधर्मकीर्तिना भगवत्प्रवचनार्थसमर्थन ....... ........."प्रकृतत्वात् विजयो मुख्यतः प्रतिपाद्यते। यद्वा यस्य वाच एव तथा जयन्ति तस्य विजयो दण्डाज्जयन्यायेनातिशयेन प्रतिपादितः / सूचितश्चासौ बिजेतृपदेन / 1 लेखोऽत्र घृष्टः /