________________ 3 वाग्विजयाख्यानेन बुद्धस्तुतिः / इति तदनु वाच इत्यनेन परार्थोपायसम्पदुक्ता। ईदृशं वस्तुनो रूपम्, इदञ्चानुष्ठेयमित्यादिरूपेण धर्मदेशनैव हि भगवतो जगद्धितावगमनलक्षणपरार्थसम्पादनोपायसम्पद् वैचवरस्येव व्याधिस्वरूपप्रतीतिशक्तिभैषज्योपदेशो रोगोपशमसम्पादनोपायसम्पत् / तदनन्तरं बदुपायसम्पत्तिसाध्या परार्थसम्पदन्येन पदेनोक्ता। तत्र वाचो जयन्ति-इति सम्बन्धः। अविवक्षितकर्मत्वादकर्मत्वम् / वाचः सूत्राभिधर्मविनयलक्षणाः / जयन्ति उत्कृष्यन्ते प्रकृष्टा भवन्ति / उत्कर्षश्च सजातीयापेक्षयेति सामर्थ्यादीश्वरादिवचनेभ्यः प्रकृष्टा भवन्तीत्यर्थः / यद्वा जयन्ति अभिभवन्ति / अभिभवश्च प्रतियोगिगोचर इत्ति। अर्थात् तीथिकशास्त्राभिभवं कुर्वन्तीत्यर्थः। प्रमाणोपपन्नार्थप्रतिपादकत्वादासाम् / तेषां तु तद्वैपरीत्यादिति बुद्धिसिद्धं कृत्वा केवलमेतदत्रोक्तम्। विनिश्चयटीकायां पुनरनेम "युक्तिप्रभावे"त्यादि हेतुभावेन विशेषणमुपात्तम् / कस्य ता इत्याकाङक्षायामाह-सुगतस्य इति / सुशब्दोऽयमर्थत्रयवृत्तिद्रष्टव्यः / प्रशस्तं गतः सुगतः। प्रशस्तं यथा भवति तथा गत:-संसारात् प्रक्रान्तः / कथं तथा गमनं तस्य ? नैरात्म्यदर्शनेन संसारातिक्रमात् / तस्य च प्रज्ञानिश्रयात् / अथवा गत्यर्थानां ज्ञानार्थत्वादपि प्रशस्तं गतः ज्ञातवानित्यर्थः / प्रशस्तञ्च तत् तत्त्वं नैरात्म्यलक्षणम् / तस्वरूपत्वञ्च तस्य प्रमाणोपपन्नत्वात् / दृष्टश्चायं सुशब्दः प्रशस्तार्थवृत्तिः / सुरूपा रूपाजीवेति यथा / अपुनरावृत्त्या वा गतः सुगतः / गतः प्रयातः संसारात् / पुनरावृत्तिशब्दवाच्ययोर्जन्मदोषयोरात्मदर्शनबीजोपघातेन भगवता समूलघातं निहतत्वात् / एतदर्थेपि सुशब्दो दृष्टः। सुनयो ज्वर इति यथा / निःशेष वा गतः सुगतः। निःशेषं यावद् गन्तव्यं तावद् गतः प्राप्तः / अक्लेशनिर्जरकायवाग्बुद्धिवैगुण्यलक्षणशेषलक्षणप्रहाणेन मुनेस्तत्पदप्राप्तेः / एवंवृत्तिरपि मुशब्दो दृश्यते / सुपूर्णो घट इति यथा। . तस्य सु[2b]गतस्य किंभूतस्येत्याह-विजेतुः-अभिभवितुः / कस्यासी विजेतेत्याह-जगतो जीवलोकस्य। विजयश्च जगदपेक्षया परमपदप्राप्त्या तस्य प्रकृष्टत्वं द्रष्टव्यम् / -अत एव जग्रवभिभूतं भवति / तस्य तद्वैपरीत्यात् / न पुना राजविजय इव राजास्तरापेक्षया कायादितिरस्कारोऽभिभवोऽवसेयः / - जमतः कीदृशस्य ? जायते संसरत्यनयेति जातिः तृष्णा। व्यस्यते विविधेन प्रकारेणेत्तस्ततो अस्यते(तोऽस्यते) क्षिप्यते अनेनेति, अस्यतीति वा व्यसनम् / जातिरेव व्यसनमित्यन्तींतनियमः समासः कर्तव्यः / तृष्यन्नेव हि प्राणी तत्तदाचरति येन संसारे संसरति / ततस्तयैवासो इतस्तत उत्पादद्वारेण व्यस्तः क्षिप्तो भवतीति सैव व्यसनं युक्तम् / अथवा जातौ उत्पत्ती निकायविशिष्टायां व्यसनम् आसक्ति: 'विद्याधरोऽहं भूयासं' 'देवोऽहं भूयासम्' इत्याद्याकारोऽभिनिवेशः / यद्वा जात्याश्रितानि व्यसनानि दुःखानि रोगशोकादीनि / प्राक्तनव्याख्याने तस्य, अन्तिमव्याख्याने तेषां प्रबन्धः प्रवाहः / तदेव वा प्रकृष्टो बन्धः / प्रवाहपक्षे प्रबन्धेन / बन्धपक्षे प्रबन्धस्य / प्रसूतेः कारणस्य / एवञ्च प्रबन्धप्रसूतिश्रुतिसहितं हेतुपदमुपाददान: परमतनिराकरणञ्चाभिप्रेति / तथा ह्येवमभिधाने सत्ययं 'प्रतौ 'दुष्खानि' इत्येवं वर्तते-सं०