________________ 256 तृतीयः परार्थानुमानपरिच्छेदः / [ 3. 140 अभूतस्यासत्यस्य दोषस्य उनानानि / उदायत 'एतरित्युद्भावनानि वचनानि / तानि जात्युत्तराणि / जात्या सादृश्यनोत्तराणि जात्युत्तराणीति // . कतिपयपदवस्तुव्याख्यया यन्मयाप्तं कुशलममलमिन्दोरंशुवन्न्यायबिन्दोः / पदमजरमवाप्य ज्ञानधर्मोत्तरं यज् जगदुपकृतिमात्रव्यापतिः स्यामतोऽहम् / / आचार्यधर्मोत्तर विरचितायां न्यायबिन्दुटीकायां तृतीयः परिच्छेवः समाप्तः // जातिर्हेत्वाभासश्च प्रयोक्तव्य इति / किञ्च दूषणस्वरूपस्य स्फुटार्थबोधनार्थम् / हेयज्ञाने हि तदविविक्तमपादेयं सूज्ञातं भवतीति जातितिः) हेत्वाभासानाञ्च स्फटस्वरूपपरिज्ञानस्य प्रयोजनम् स्ववाक्ये परिवर्जनं परप्रयुक्तानामपि दोषोद्भावनमितरथा व्यामोहः स्यादित्युक्तप्रायम् / तत्र जात्युत्तरस्योदाहरणं यथा-अनित्यः शब्द: कृतकत्वाद् घटवदित्युक्ते किमिदं कृतकत्वं शब्दगतं हेतुत्वेनोपनीतमाहोस्विद् घटगतम् / यदि शब्दगतं तस्य घटो दृष्टान्तोऽसम्भवादव्याप्तेरनैकान्तिको........... ........."प्रत्यवस्थानात्मिका ......"साधादिति नैयायिक............ ..... आचार्यस्य त्वयमाशयो......... ............तथाहि नैयायिका........ ................"प्रतिज्ञापदयोविरोधमाहुस्तथा–प्रयत्नानन्तरीयकः शब्दः........... प्रयत्नानन्तरीयकत्वादि............ ............"हेतुमाचक्षते। तयैव दुषणा....... शब्दस्य धर्मित्वात् / न चेयं जाति.......... ...भवति / ततश्च यस्यैव प्रत्यवस्थानस्य...... ......."तत्प्रयो जाति.... ..... ..... त्युत्तराणीत्यत्रेतिशब्दो महावाक्यपरिसमाप्तौ // 1 एतैरुद्भा C. 2 व्यापृतः C. D. 3 समाप्तेयं न्यायबिन्दुटीका कृतिराचार्यधर्मोत्तरस्य / / A. ०रपादविरचितायां B. D. A. B. प्रतिषु सहस्रमेकं श्लोकानां तथा शतचतुष्टयम् / सप्तसप्ततिसंयुक्तं निपुणं परिपिण्डितम् / / D. प्रती-० पिण्डितम् / / 1477 // मंगलं महा श्री॥ C. प्रतौ-समाप्तमिति // संवत् 1490 वर्षे मार्गशिर सुदि 3 रवौ श्री खरतरगच्छे श्री जिनराजसूरिपट्टे, श्री श्री जिनभद्रसूरिराज्ये परीक्षमूर्जरसुतधरणाकेन लिखापितं / / शुभं भवतु // कल्याणमस्तु // न्यायबिन्दुसूत्रवृत्ति'""पुरोहितहरीयाकेन लिखितम् //