________________ 3. 140. ] दूषणाभासाः। 257 आचार्यश्रीधर्मकीतिविरचितस्यास्य न्यायविन्दुसंज्ञकस्य प्रकरणस्य यथावदर्थप्रकाशिकां महापटीयसीमीदृशीं [व्याख्यां] [विरच] यता मया..... ..............किमपि पुण्यमुपाजितं तदनेन तादृशीमवस्थां प्राप्य सकलसत्त्वोपकार..............मित्यध्याशयो मे............. क्रियायोगात्सात्मीकृतपरार्थकरणोऽयं धर्मोत्तरः कतिपयेत्यादिना........................श्लोकमाह / अस्यायं समुदायार्थः / न्यायबिन्दोः कियत्... .. . .......""कुशलमाप्तमतः कुशलादजरं ज्ञानधर्मोत्तरं च पदं तदवाप्य जगदुपकृतिमात्र[व्यापृतिः] स्यामिति / ............ .........'बुद्ध्यते। पद्यन्ते गम्यन्तेऽर्था एभिरिति पदानि वाक्यानि तेषां वस्तुप्रतिपाद्यतयास्ति तमभिधेयरूपं ....... शेषो ज्ञेयः / आप्तं प्राप्तं कुशलं सुकृतम् / किं कुर्वता? [84a]........... .. .."भवति पुण्यमपि कुशलञ्च / यथा पर............ परोद्भवापि / ततो व्यभिचारसंभवाद्विशेषणम् / विनिर्मलम् ? इन्दोरंशवदिति : इन्दोश्चन्द्रमसोंऽशवः किरणास्त इव / एवं विधविधानेन यत् पुण्यं जन्यते तदवश्यममलतयैतत्तुल्यं भवतीति भावः / पदं प्रतिष्ठामवस्थामिति यावत् / कि...............द्यते.. यत्र तत्तथा। जराग्रहणस्योपलक्षणत्वात् मृत्योरपि संग्रहो ज्ञातव्यः / तेनायमर्थ:-अजरममयं चेति / अथवा जरानिर्देशेनैव दण्डापूपन्यायन मृत्योः प्रतिषेधः कृत एवेत्यवसेयम् / पुनरपि तद्विशिनष्टि–ज्ञानेति / ज्ञानं हेयोपादेयतत्त्वस्य साभ्युपायस्यावबोधो विवक्षितः। धर्मश्च सर्वोपकरणनिवर्तकोऽदृष्टः / तावेवोत्तरावधिको यत्र पदे तत्तथा। ताभ्यां चोत्तरं श्रेष्ठम् / यत्तदोश्च नित्यमभिसम्बधेन तच्छब्दस्य लब्धत्वात तदवाप्येत्यर्थोऽवतिष्ठते। जगतो जीवलोकस्य उपकृतिरुपकारः। सैव तन्मात्रम् / तद्व्यापतिर्व्यापारो व्याप्रियमाणता यस्य मम सोऽहं तथा / नन्वाशंसाविषयेऽस्मिन्नाशीलिङ्गा भूयासमिति शब्दसिद्धे [नैवम] नेन वक्तव्यम् तत् किमेवमवादीदिति चेत् / न / आशंसाविषयत्वाभावात् / यत एवंविधानुष्ठानजन्मना पुण्यातिशयन एवंभूतपदप्राप्तेस्ततोऽपि ममैवंविधक्रियस्य संभाव्यमानत्वादेव...... ........"यमेतदित्यभिप्रायात सर्वमवदातमिति // गुरोजितारेरधिगम्य धीधनं मया हि टीका विवृता पटीयसी। कुतूहलेनापि तदत्र युज्यते निरीक्षण साधु विवेचकानाम् // अज्ञो जनस्त्यजति लब्धमपीह रत्नं काचेन तुल्यमिति चलायतेपि (मिति चंचलमानसोपि)। एतावतैव तदलंकरणं न किं स्यात् किं वाऽऽदरेण तदुपाददते न धन्याः / / इमं निबन्धं विधिवद्विधाय [मया ह्यवाप्तं सुकृतं कथंचित् / इहैव जन्मन्यथ तेन सत्त्वा अनन्तसंबोधिमवाप्नुवन्तु / / // पण्डितदुर्वेकमिश्रविरचितधर्मोत्तरप्रदीपो नाम निबन्धः समाप्तः //