________________ 3.140 } दूषणाभासाः। 255 दूषणाभासास्तु जातयः // 136 // ___ दूषणाभासा इति / 'दूषणवदाभासन्त इति दूषणाभासाः / के ते ? जातयः 2 इति / जातिशब्दः सादृश्यवचनः / उत्तरसदृशानि जात्युत्तराणि / उत्तरस्थानप्रयुक्तत्वाद् उत्तरसदृशानि जात्युत्तराणि // . तदेवोत्तरसादृश्यमुत्तरस्थानप्रयुक्तत्वेन दर्शयितुमाह अभूतदोषोद्भावनानि जात्युत्तराणीति // 140 // - 'तृतीयपरिच्छेदः समाप्तः // // न्यायबिन्दुः समाप्तः // लघुधर्मोत्तरसूत्रं समाप्तमिति // ननक्तं विपरीतसाधनं दूषणम् / तत्कथं परेष्टार्थसिद्धिप्रतिबन्धकस्यापि न्यनतादिवचनस्य तथात्वमुच्यत इत्याशङ्कामपाकुर्वन्नाह--नावश्यमिति। किन्त्वपरस्य सिसाधयिषितार्थनिश्चयविबन्धात् अप्यत्रार्थीद् द्रष्टव्यम् / अन्यथाऽवश्यं ग्रहणमवधारणं विरुद्धवदित्यपि दुर्योजं स्यात / मृत्वा शीर्वा च तद्योजने वक्तुरकौशलं स्यादिति / यदि त्ववश्यं विपर्ययसाधनत्वस्यैव दूषणत्वमिति निर्बन्धस्तदा तदप्यस्य न्यूनतादिवचनस्यास्तीति दर्शयन्नाह-निश्चयेति / वाशब्दः पक्षान्तरमवद्योतयति / इतिस्तस्मादस्त्येव / / सादृश्यार्थवृत्तेरपि जातिशब्दस्य दर्शनाज्जातिशब्दः सादृश्यवचन इत्याह / . ननु जातिशब्दः सादृश्यवचनत्वादस्त्वयमर्थ:--जातयः सदशा इति / कानि पूनस्तानि .केन च सदृशानीति न ज्ञायत इत्याशङ्कामपाकुर्वन्नाह-उत्तरेति / एतच्चाचार्येणैव विवरणे स्पष्टीकृतमिति मन्यते। तदयमर्थ:--जातिशब्देन जात्युत्तरमेवात्र वर्तिककारस्य विवक्षितमिति / कथं पुनर्दूषणाभासानां जात्युत्तरशब्दवाच्यत्वमित्याशङ्कयाह-उत्तरेति / लक्ष्यते चायमाचार्यस्याशयो यदुतोत्तरस्थाने जायत इति / विवरणेऽप्युत्तरस्थाने जायमानत्वाज्जायत उत्तरत्वेनाभासनादुत्तराणीति / एवं तु कथमनेन [न] व्याख्यातमिति न प्रतीमः // जात्युत्तरशब्दस्य विग्रहं दर्शयन्नाह-जात्येति / अभूतदोषोदभावनानि जात्युत्तराणीति ब्रुवता वार्तिककृता भूतदोषोद्भावनं तु यद् दूषणाख्यं तदेवोत्तीर्यते अनिष्टपक्षादनेनोत्तारयति, निर्वाहयति वा स्वपक्षमिति / [83b] . . . 'मिति सूचयति / एतच्च जात्युत्तरव्युत्पादनमाचार्यस्य हेत्वाभासवन्न प्रयोगार्थम् / यथा नैयायिका मन्यन्ते-अत्यन्तपराजीयमानावस्थायां दूषणावत् B. - 2 'इति' नास्ति A. B. P. H. E. N. 3 राणीति A. P. H. E. 4 अनुभूत B. P. H. ५'तृतीयपरिच्छेदः समाप्तः' इति नास्ति C. D.