________________ 254 तृतीयः परार्थानुमानपरिच्छेदः। - [ 3. 137 दूषणं वक्तुमाहदूषणा 'न्यूनतायुक्तिः // 137 // दूषणा का द्रष्टव्या ? न्यूनतादीनामुक्तिः / उच्यतेऽनयेत्युक्तिर्वचनम् न्यूनतादेवचनम् // . दूषणं विवरीतुमाह ये पूर्व न्यूनतादयः साधनदोषा उक्तास्तेषामुद्भावनं दृषणम् / तेन परेष्टार्थसिद्धिप्रतिबन्धात् // 138 // ये पूर्वं न्यूनतादयोऽसिद्धविरुद्धानकान्तिका उक्तास्तेषामुद्भावकं यद्वचनं तद् दूषणम् / ननु च न्यूनतादयो न विपर्ययसाधनाः। तत् कथं दूषणमित्याह तेन न्यूनतादिवचनेन परेषामिष्टश्चासावर्थश्च तस्य सिद्धिः निश्चयस्तस्याः प्रतिबन्धात् / नावश्यं विपर्यय- . साधनादेव दूषणं विरुद्धवत्। अपि तु परस्याभिप्रेतनिश्चय विबन्धान्निश्चयाभावो भवति निश्चयविपर्यय इत्यस्त्येव" विपर्ययसिद्धिरिति / उक्ता दूषणा // देरपि दृष्टान्ताभासस्यासाधनाङ्गवचनाद वादिनो निग्रहोऽसामोपादानान्न्यायप्राप्तः। तस्मादेवंविधाः स्ववाक्ये वर्जनीयाः / परोपात्ताश्च चोदनीया इति दृष्टान्ताभासव्युत्पादने वार्तिककृतोऽभिप्रायः प्रत्येतव्य इति / सम्प्रति सुखग्रहणार्थमुक्तप्रबन्धस्याचाीयस्य प्रतिपादितमवच्छिन्दन्नाह--इयतेति त्रिरूपलिङ्गाख्यानमित्यादिनैतदन्तेन, इदं परिमाणमस्येतीयत् तेनेयता महावाक्येन साधनमुक्तमाचार्येणेति शेषः / प्रसङ्गागतस्यानेकस्यापि यदभिधानमतिवृत्तम्, तदपि साधनप्रतिपादन एव साक्षात्परम्परया वा समुपयुक्तम् / साधनाभासाभिधानमपि तस्यैव स्फुटावगमार्थं तत्रैवोपयुक्तमिति मन्यमानेनोक्तमियता साधनमुक्तमिति // इति भूतदूषणोद्भावना दूषणा / दुषेणिजन्ताद् युचंकृत्वा टाप्कर्त्तव्यः / एतच्च तदूषणमित्यन्तं सुबोधम् / विपरीतसाधनस्यैव दूषणत्वात्कथं न्यूनताद्युक्ति(क्ते)र्दूषणत्वमित्यभिप्रेत्याह-ननु चेति / अत्र तेनेत्याधुत्तरं व्याचक्षाण आह--तेनेत्यादि / 'न्यूनतायुक्तिः --B. P. H. दूषणानि न्यू० E. 2 दूषणानि कानि द्रष्टव्यानि-E. 3 न्यूनतादिर्व A.B.P.H. न्यूनतादिवच० E.N. 4 निश्चयनिबन्ध० A. B.C. D. P. H. N. निश्चयप्रतिबन्ध० E. 5 इत्यस्ति विप० A. P. H. E. 6 उक्तं दूषणम्-E. - नास्ति 'दूषणा' A. B. P. H.