________________ 3.136 ] दृष्टान्तदोषाः। 253 दृष्टान्तदोषानुदाहृत्य दुष्टत्वनिबन्धनत्वं दर्शयितुमाह न ह्येभिदृष्टान्ताभासैहेतोः सामान्यलक्षणं सपक्ष एव सत्त्वं विपक्षे च सर्वत्रासत्त्वमेव निश्चयेन शक्यं दर्शयितुं विशेषलक्षणं वा। तदर्थापत्यैषां निरासो 'द्रष्टव्यः // 136 // . न ह्येभिरिति / साध्यनियतहेतुप्रदर्शनाय हि दृष्टान्ता वक्तव्याः। एभिश्च हेतोः सपक्ष एव सत्त्वं विपक्षे च सर्वत्रासत्त्वमेव प्रत् सामान्यलक्षणं तत् निश्चयेन च शक्यं दायितुम् / ननु च सामान्यलक्षणं विशेषनिष्ठमेव प्रतिपत्तव्यं न स्वत एवेत्याह-विशेषलक्षणं वा। यदि विशेषलक्षणं प्रतिपादयितुं शक्येत स्यादेव सामान्यलक्षणप्रतिपत्तिः / विशेषलक्षणमेव तु न शक्यमेभिः प्रतिपादयितुम् / तस्मादर्थापत्त्या सामर्थ्येन एषां निराकरणं द्रष्टव्यम् / साध्यंनियतसाधनप्रतीतये उपात्ताः। तदसमर्था दुष्टाः, "स्वकार्याकरणादिति "असामर्थ्यम् / इयता साधनमुक्तम् // अकृतकत्वं कृतकत्वस्य साधनस्याभावः / नित्यत्वेऽनित्यत्वलक्षणसाध्याभावे। न नित्यत्वं साध्याभावलक्षणं साधनाभावे कृतकत्वलक्षणसाधनाभावेऽकृतकत्व इत्यर्थात् / यत एवं ततो हेतोर्व्यतिरेकवाक्यं कर्तुं हेतुं कर्मभूतं न साध्यनियतमाह। उक्तया नीत्या साधनाभावः साध्याभावे नियतत्वात्तमन्तरेण न भवेत् / न तु यत्र साध्याभावस्तत्रावश्यं साधनाभाव इति साध्यमन्तरेणापि साधनं भवेत् / ततश्च साध्यानियतं साधनमित्यभिप्रायः। तथा च साध्यनियतहेत्वप्रदर्शनप्रकारे सति वक्तुरेवंवाक्यप्रयोक्तुः // - निश्चयेनावश्यंतया। विशेषनिष्ठमेव प्रत्येतव्यमिति ब्रुवतोऽयं भाव:-यदि नामामीभिः सपक्ष एव सत्त्वं विपक्षे सर्वत्रासत्त्वं निश्चयेन शक्यते दर्शयितुम, तथाप्येते विशेषलक्षणं सामान्यलक्षणप्रतिपत्त्यङ्गं प्रतिपादयन्त उपयोक्ष्यन्त इति / अत्र विशेषलक्षणश्चेत्युत्तरं यदीत्यादिना व्याचष्टे। यत: सामान्यलक्षणं विशेषलक्षणं वा न शक्यमेभिर्दर्शयितुम् / तस्मात् कारणात् / अर्थापत्त्येत्यस्य व्याख्यानम् सामर्थ्येन सामान्यविशेषलक्षणाप्रतिपादनलक्षणेन / एषां दृष्टान्ताभासानां निराकरणं दृष्टान्तरूपत्वेनेत्यर्थात् / कथममी दुष्टा येन तथात्वेन निराकरणमेषामित्याशङक्योपसंहरन्नाह–साध्यति / तवसमस्तिदप्र(तत्प्रतीतिकारणाशक्ताः / असामर्थ्यमेव कथं येनासाम[83aर्थ्याद् दुष्टा उच्यन्त इत्याह-स्वकार्यस्य हेतोः साध्यनियतत्वप्रदर्शनलक्षणस्याकरणात् / ननु तदकरणमेवासामर्थ्यमुक्तमिति चेत् / सत्यम् / केवलमसामर्थ्यव्यवहारापेक्षयैवमुक्तमित्यवसेयम्। इतिस्तस्मादर्थे, एवमर्थे वा / असामर्थ्यमेषामित्यर्थात्। साध्यादिविकलस्यानन्वयाप्रदर्शितान्वया निरासो बेदिलव्यः B. D. P. H. E. N. 2 सामर्थ्यनेति न तेषां A. B. P. सामर्थ्यनेति तेषां-E. H. सामर्थ्यन तेषां D. 3 प्रतिपत्तये उपा० B. 4 स्वकार्यकरणात-A. B. P. H. 4 स्वकार्यकर 5 'असामर्थ्यम्' इति संशोधितं C.D.प्रतयोः। इति सामर्थ्यम्-A.B.P.H. E.N.