________________ 252 तृतीयः परार्थानुमानपरिच्छेदः / [ 3.135 कृतकमित्यादि / इहान्क्य व्यतिरेकाभ्यां साध्यनियतो हेतुर्वर्शयितव्यः / यदा च साध्यमियतो हेतुर्वशयितव्यस्तदा व्यतिरेकवाक्ये साध्याभावः साधनाभावे नियतो दर्शयितव्यः। एवं हि हेतुः साध्यनियतो दलितः स्यात् / यदि तु साध्याभावः साधनाभावे नियतो नाल्यापते साथनसत्तायामपि साध्याभावः संभाव्येत / तथा च साधनं साध्यनिवतं न प्रतीयेत / तस्मात् साध्याभावः साधनाभावे नियतो वक्तव्यः। विपरीतव्यतिरेके च साधनाभावः साध्याभावे नियत उच्यते। न साध्याभावः साधनाभावे। तथा हि-यदकृतकमिति साधनाभावमनूद्य तन्नित्यमिति साध्याभावविधिः / ततोयमर्थः- अकृतको नित्य एव। तथा च सति अकृतकत्वं नित्यत्वे साध्याभावे नियतमुक्तम्, न नित्यत्वं साधनाभावे। ततो न साध्यनियतं हेतुं व्यतिरेकवाक्यमाह। तथा. च विपरीतव्यतिरेकोऽपि वक्तुरपराधाद् दुष्टः // यद्येवमसाधकः कथं नाम साधक इत्याह-व्यतिरेकेति / व्यतिरेकविषयत्वेनेति व्यतिरेकप्रतिपत्तिविषयत्वेन / चो यस्मादर्थे, व्यक्तमेतदित्यस्मिन्नर्थे वा। अनेनापि तथैवोपन्यस्त इत्याह-न चेति / चोऽवधारणे। व्यतिरेकवाक्यमनुक्त्वैव तस्योपादानादित्यभिप्रायः / इंतिस्तस्मादर्थे एवमर्थे वा // विपरीतव्यतिरेकं . व्याचक्षाण आह--यदा चेति / विपरीतान्वयश[82b]ब्दस्य व्युत्पत्तौ दर्शितायां विपरीतव्यतिरेकशब्दस्यापि--विपरीतो वैपरीत्येन प्रदर्शनाद् व्यतिरेको मस्मिन् दृष्टान्ते स तथोक्त इति–व्युत्पत्तिर्दर्शिता भवत्येवेति चाभिप्रायेण नोक्ता। तमुदाहस्तीलि सुज्ञानत्वानोक्तमिति प्रतिपत्तव्यम् / यत्र तु पुस्तके विपरीतव्यतिरेको यथेत्यस्य मूलस्य व्य ख्यानग्रन्थोऽस्ति तत्र सर्वमवदातम्। असतीयं गतिरस्माभिर्दर्शिता / ननु किं नाम व्यतिरेकवाक्येन दर्शनीयम् ? यद्वपरीत्येन दर्शनादयं विपरीतव्यतिरेक उच्यत इत्याह--यदा चेति। चोऽवधारणे। साध्यनियत इत्यस्मात्परः प्रतिपत्तव्यः। यदा यस्यिन काले प्रतिपादनकाल इत्यर्थात् / कालान्तरे तथाप्रदर्शनानुपपत्तेः / हेतोः साध्ये नियतत्वप्रदर्शनञ्चाक्यकार्यमन्यथा गमको नोक्तः स्यादित्यभिप्रायः। तदा तस्मिन् काले। साध्याभावानुवादेन साधनाभावोऽभिधातव्य इत्यस्यार्थः / कस्मात्पुनरेवं दर्शयितव्य इत्याहएवं हीति। हीति यस्मात् / एवं साध्याभावस्य साधनाभावे नियतत्वप्रदर्शनप्रकारे सति / अथान्यथाप्रदर्शनेऽपि यदि साधनं साध्यनियतं प्रतीयते तदा तथाप्रदर्शनेनैव कि प्रयोजनमित्याह-यदि त्विति। तुस्तथाऽनाख्यानावस्थां भेदवती दर्शयति / तथा च साधनसत्तायामपि साध्याभावसम्भावनाप्रकारे सति। यस्मादेवं तस्मादित्युपसंहारः। अस्मिन् प्रयोगे किं नामोच्यत इत्याह-विपरीतेति / तुशब्दार्थश्चकारः। तथा हीत्यादिनैतदेव प्रतिपादयति / यत एवमनुवादविधिस्ततः / तथा चाकृतकस्य नित्यत्वोक्तिप्रकारे सति / 'व्यतिरेकवाक्याभ्यां A. B. D. P. H. E. N. . 2 संभाव्यते B. 3 प्रतीयते-B.C.