________________ 3. 135. ] दृष्टान्तदोषाः। 251 सिद्धो दर्शयितव्यः / तस्माद् दृष्टान्तो नामान्वयव्यतिरेकवाक्यार्थप्रदर्शनः / न चेह व्यतिरेकवाक्यं प्रयुक्तम् / अतो धर्म्यदृष्टान्त इहासादृश्यमात्रेण साधक उपन्यस्तः। न च तथा साधकः / व्यतिरेकविषयत्वेन स साधकः। न च तथोपन्यस्त इतिः अयमप्रवशितव्यतिरेको वक्तुरपराधाद् दुष्टः॥ विपरीतव्यतिरेको यथा—यदकृतकं तन्नित्यं भवतीति // 13 // पविपरीतो व्यतिरेको यस्मिन् वैधर्म्यदृष्टान्ते स तथोक्तः। तमुदाहरति-यथा यद अन्वयवाक्ये साधनमनूद्य साध्यं विधातव्यम् / व्यतिरेकवाक्ये च साध्याभावमनूद्य साधनाभावो विधातव्यः / तथैव हेतोः साध्यनियतत्वाभिधानादित्यस्यार्थः / कस्मादसौ वाक्यद्वयेनाप्येव वक्तव्य इत्याह--अन्यथेति / अस्मादन्येन प्रकारेण गमकः परोक्षार्थप्रकाशको नोक्तः स्यात् / __ काममसावेवमुच्यताम् / दृष्टान्तस्तु कथमत्राधिक्रियत इत्याह--स इति / स हेतुस्तथोक्तः साध्यनियत उक्तः / दृष्टान्तेन साधर्म्यवता वैधर्म्यवता च करणेन सिद्धो निश्चितो दर्शयितव्यः / नन्वेवमपि न ज्ञायते किंव्यापारो दृष्टान्त इहोपयुज्यते इत्याशङ्कयोपसंहारव्याजेनाह-- तस्मादिति / नामशब्द: प्रसिद्धाविह / अन्वयव्यतिरेकवाक्ययोरा (र्थोऽ) भिधेयः--उक्तेन प्रकारेण हेतोः साध्यनियतत्वम्--प्रदर्यः / तं प्रदर्शयतीति तथा / यद्वा प्रदर्श्यतेऽनेनेति प्रदर्श्यतेऽस्मिन्निति प्रदर्शनः। तस्य प्रदर्शन इति विग्रहः / / यद्येवमयमपि वैधर्म्यदृष्टान्तस्तथाकार्येवात्रोपयोज्यत इत्याहन चेति / चो .. यस्मादर्थे / इह प्रयोगे / व्यतिरेकख्यापकं साध्याभावानुवादेन साधनाभावविधायकं वाक्यमित्यर्थः / अतस्तथाभूतवाक्यप्रयोगाद् वैधर्म्यदृष्टान्त आकाशः / ' इहानित्यत्वसाधनप्रयोगे साध्यमिणोऽसादृश्यं केवलं यत्तन्मात्रेण तन्मात्रप्रदर्शनेन, विषयेण विषयिणो निर्देशात् / साधको निश्चायको हेतोः साध्यनियतत्वस्येति प्रकरणात् / यदि तन्मात्रेणापि साधकस्तदा का क्षतिरित्याह-न चेति / तथेत्यसादृश्यमात्रेण / वाद्युक्तेन धर्मेण साध्यमिणोऽसादृश्यावगमे धर्मान्तरेणाप्यसादृश्यावगमोऽवश्यंभावीति युज्यतेऽतिप्रसङ्गादित्यभिप्रायः / / 1 प्रदर्शनार्थे / C.D. . 2 सादृश्यभावेन साध० A.B.P.H.N. 3 इति / अतोऽप्र० A.P.H.E.N. इति / अप्र०C 4 'यथा' नास्ति D. 5 विपरीतो' इत्यारभ्य 'तमुदाहरति' पर्यन्तः पाठो दुर्वेकसमीपस्थैकस्मिन्नादर्श नासीदिति व्याख्यानुरोधात् ज्ञायते-सं० ६:यथा' नास्ति A. B. P. H. E. N.