________________ 250 तृतीयः परार्थानुमानपरिच्छेदः / [ 3.134 अप्रदर्शितो व्यतिरेको यस्मिन् स तथोक्तः। अनित्यः शब्द इत्यनित्यत्वं साध्यम् / कृतकत्वादिति हेतुः / आकाशवदिति वैधhण दृष्टान्तः / - इह परार्थानुमाने परस्मादर्थः प्रतिपत्तव्यः। स शुद्धोऽपि स्वतो यदि परेणाशुद्धः ख्याप्यते स तावद्यथा प्रकाशितस्तथा न युक्तः / यथा युक्तस्तथा न प्रकाशितः। प्रकाशितश्च हेतुः। अतो वक्तुरपराधादपि परार्थानुमाने हेतुर्दष्टान्तो वा दुष्टः स्यादपि / न च सादृश्यादसावृश्याद्वा साध्यप्रतिपत्तिः, अपि तु साध्यनियताद्धेतोः। अतः साध्यनियतो हेतुरन्वयवाक्येन व्यतिरेकवाक्येन वा वक्तव्यः। अन्यथा गमको नोक्तः स्यात् / स तथोक्तो दृष्टान्तेन दृष्टान्तस्तथाप्ययं कथं दुष्ट इत्याह--तत्स्वकार्येति / तच्च तत्स्वकार्य च। साधनाभावे साध्याभावनियतख्यापनलक्षणं चेति / तथा तस्याकरणादसम्पादनाद् दुष्ट इति // अथ परमार्थतस्तावद् दृष्टान्ते नभसि साध्याभावोऽप्यस्ति, साधनाभावश्च / तत्कथमप्रदर्शितव्यतिरेको दृष्टान्तो दुष्ट इत्याह--इहेति / परस्मात्साधनवादिनः / अर्थों हेतुलक्षणः / प्रकरणात्साध्याभावे साधनाभावलक्षणश्च / स स्वतः शुद्धो वस्तुवृत्त्या परिशुद्धः / तथात्वेन विद्यमान इति यावत् / न केवलमशुद्ध:-इत्यपिशब्दात् / परेण साधनप्रयोक्त्रा। यथा प्रकाशितो व्यतिरेकमात्रवान् प्रकाशितो व्याप्तिशून्यश्च प्रकाशितः / तथा न युक्तो नोपयुक्तः साध्यसिद्धौ। यदि हि साध्याभावानुवादेन साध्या (धना) भावो विधीयते दृष्टान्ते प्रदातैवमसौ हेतुः साध्यसिद्धयङ्गव्यतिरेकवान् सिद्धयेत् / एवमेव * चाऽसौ व्याप्तिमद्व्यतिरेकः प्रसिद्धयेत्। तत्प्रदर्शनश्च दृष्टान्तोऽदुष्टो भवेदित्यभिप्रायः / - यदि नाम तथा न प्रकाशितस्तथापि तदुपयोगी हेतुर्दष्टान्तो वा तथा किं न प्रतिपद्यत इत्याह-प्रकाशितश्चेति / चो यस्मादर्थे / हेतुरित्युपलक्षणम् / तेन दृष्टान्तोऽपि द्रष्टव्यः / अ(यत एवम् अतो अस्माद् हेतोः / न केवलं वचोव्यवस्थिताद् दोषादित्यपिशब्देनाह / यद्यपि दृष्टान्त एव प्रकृतस्तथापि हेतुरप्येवंविधः स्वतोऽदुष्टोऽपि वक्तृदोषादेव दुष्यतीति तुल्यन्यायतया प्रसङ्गेन दर्शितम् / यद्वा यथैवंविधो हेतुर्वक्तृदोषाद् दुष्टो भवति तद्वद् दष्टान्तोऽपीति दृष्टान्तार्थ हेतोः वक्त्रपराधेना (न) दुष्टत्वख्यापनं कृतमिति सर्वमवदातम / 182a] ननु च यथा कृतकत्वेनाकाशविधर्मा शब्द: प्रतीयते, तथाऽनित्यत्वेनापि तदविधर्मा भविष्यति / तत्कथमनुपयुक्त इत्याहन चेति / चोऽवधारणे हेतौ वा। एवंवदतोऽयमाशय:योकेन धर्मेण वैधर्म्य (W) प्रतीतेऽपरेणापि तदवैधर्म्यप्रतीतिरवश्यंभाविनी, तदा मर्तत्वेनापि शब्दस्य तद्वधर्म्यप्रतीतिः प्रसज्येतेति / तुल्यन्यायतयाऽन्वयवाक्यमधिकृत्य सादृश्यादित्युक्तम् / सादृश्यावसादृश्याद् वेति साधर्म्यवैधर्म्यदृष्टान्तप्रतिपादितादिति प्रकरणात् / . व्यतिरेकवाक्येनापि साधनाभावेनापि नियमख्यापनद्वारा साध्य एव हेतोनियतत्वख्यापनाद् व्यतिरेकवाक्येन चेत्युक्तम् / 1 च वक्त० A.B.P.H.E.N. 2 दृष्टान्तेनासिद्धो-B..