________________ 3. 134..] दृष्टान्तदोषाः / 249 अविद्यमानो व्यतिरेको यस्मिन् सोऽव्यतिरेकः / अवीतराग इति रागाविमत्त्वं साध्यम् / वक्तृत्वादिति हेतुः। इह व्यतिरेकमाह-यत्रावीतरागत्वं नास्तीति साध्यामावानुवादः / तत्र वक्तृत्वमपि नास्ति-इति साधनाभावविधिः / तेन साधनाभावेन साध्याभावो व्याप्त उक्तः। अदष्टान्तो यथोपलखण्ड 'इति / कथमयमव्यतिरेको यावतोपलखण्डादुभयं निवृत्तम् ? किमतः ? यद्यपि उपलखण्डादुभयं व्यावृत्तं सरागत्वं च वक्तृत्वं च, तथापि व्याप्त्या व्यतिरेको यस्तस्याऽसिद्धः कारणाद् अव्यतिरेकोऽयम् / कीदृशी पुनर्व्याप्तिरित्याह-सर्वो वीतराग इति साध्याभावानुवादः / न वक्तेति साधनाभावविधिः। तेन साध्याभावः साधनाभाव नियतः 'स्यापितो भवतीति / ईशी व्याप्तिः। तया व्यतिरेको न सिद्धः। अस्य चार्थस्य प्रसिद्धये दृष्टान्तः। तत् स्वकार्याऽकरणाद् दुष्टः॥ अप्रदर्शितव्यतिरेको यथा-अनित्यः शब्दः, कृतकत्वादाकाशवदिति वैधर्येण // 134 // येनायमनुवादविधिक्रमस्तेन हेतुना। यावतेति तृतीयान्तप्रतिरूपको यस्मादित्यस्यार्थे वर्तमानोऽत्र गृहीतः / उ[81b]पलखण्डाच्छिलाशकलात् / उभयं साध्यसाधनम्। किमत इति सिद्धान्ती। अत उभयनिवृत्ते किं भवति ? न किञ्चिदित्यर्थः। ननूपलखण्डात्तावद् वैधर्मीदृष्टान्तावुभयं निवृत्तं दर्शितं येन तत्किमेवमुच्यत इत्याह-यद्यपीति / व्याप्त्या सर्वरागित्वजन्यतास्वीकारेण / तस्य व्याप्तिमतो व्यतिरेकस्याऽसिद्धरनिश्चयात् / कीदृशीति सामान्यतः पृच्छति / पुनरिति विशेषतः / इतिरनन्तरोक्तं शब्दं परामशति / तेनानेन शब्देनेत्यर्थः / न वक्तव्येत्यत्रापीति पूर्ववत् / येनैवमनुवादविधिक्रमस्तेन / इतिरीदृश्या व्याप्तः स्वरूपं प्रकाशयति यस्मादर्थे वा। तत्प्रतीत्थंभूतलक्षणतयेयं तृतीया, साधनाभावेन साध्याभावन्यायेन लक्षणा व्याप्तिरीदृशीत्यर्थः / ईदशं व्याप्तिमन्तं व्यतिरेकं प्रसाधयितुमसमर्थोऽयं कथमयं दृष्टान्तोऽत्रेष्ट इत्याह-अस्य चेति / अस्य साधनाभावे साध्याऽभावनियतलक्षणस्यार्थस्य। चो यस्मादर्थेऽवधारणे वा। प्रसिद्धये निश्चयार्थं दृष्टान्त उपादीयत इति शेषः, प्रकरणलभ्यं वा, न चायं तथाप्रदर्शन इत्यमुमर्थं प्रकरणगम्यं कृत्वा। तत्तस्मात् स्वकार्याकरणाद् दुष्ट इत्युक्तम् / यद् वा भवत्वस्यार्थस्य प्रसिद्धये 'अत्र दृष्टा० D. 2 ०खण्डेति० A. B. P. H. ३०भयमपि नि० D. 4 यद्यपल A. B. P. H. E. 5 यत्र वीतरागत्वं तत्र वक्तृत्वं नास्ति-टि० व्याप्तो व्य० C. साधनाभावे नि D. साधनाभावो नि० C. 8 स्थापितो--A. 5 भवति / ई० D. B. 10 नास्ति 'वैधhण'-E. वैधप॑णापि B.D. P. H. न मूलत्वेनापि तु टीकास्थं गृहीतं N. प्रतौ 32