________________ 248 तृतीयः परार्थानुमानपरिच्छेदः। [3. 133. पथर्षभादेरिति / ऋषभादेरवीतरागत्वपरिग्रहाग्रहयोगयोः साध्यसाधनधर्मयोः संदिग्धो व्यतिरेकः // 132 // सन्दिग्ध उभयोर्व्यतिरेको यस्मिन् स तथोक्तः। तमुवाहरति यथेति / अवीतरागा इति रागादिमत्त्वं साध्यम् / कपिलादय इति धर्मी। परिग्रहो लभ्यमानस्य स्वीकारः प्रथमः / स्वीकारावं यद् गाध्यं मात्सर्य स आग्रहः / परिग्रहश्च आग्रहश्च, ताभ्यां योगात् / कपिलादयो लभ्यमानं स्वीकुर्वन्ति स्वीकृतं न मुञ्चन्ति-इति ते रागादिमन्तो गम्यन्ते / अत्र प्रमाणे वैधर्योदाहरणम्-पत्र साध्याभावे साधनाभावो दर्शयितव्यः। यो वीतराग इति साध्याभावमनूद्य, न तस्य परिग्रहाग्रहाविति साधनाभावो विहितः। यथर्षभादेरिति दृष्टान्तः / एतस्माद षभादेर्दष्टान्ताद् अवीतरागत्वस्य साध्यस्य परिग्रहाग्रहयोगस्य' च साधनस्य अनिवृत्तिः संदिग्धा। ऋषभादीनां हि परिग्रहाग्रहयोगोपि संदिग्धो वीतरागत्वं च / यदि नाम तसिद्धान्ते वीतरागाश्च निष्परिग्रहाश्च पठ्यन्ते तथापि संदेह एव // अपरानपि 'त्रीनुदाहर्तुमाह अव्यतिरेको यथा-अवीतरागोऽयं वक्तृत्वात् / / "वैधय॒णोदाहरणम्- “यत्रावीतरागत्वं नास्ति, न स वक्ता। . यथा-उपलखण्ड इति। यद्यप्युपलखण्डादुभयं व्यावृत्तं 1 तथापि सर्वो वीतरागो न वक्तेति व्याप्त्या व्यतिरेकासिद्धव्यतिरेकः // 133 // उभयश(उभश)ब्दस्य द्विवचनान्तस्य प्रयोगदर्शनादुभयोरित्युभशब्देनार्थमाह / लब्धमिदं वस्तु मत्तोऽन्यत्र नरामदि (मागादि)ति तु विशेषोऽत्र मात्सर्यमभिप्रेत आग्रहः। न मुञ्चति(न्ति) नान्यस्मै ददति। अनेनैव रूपेण वैधोदाहरणं भवति / नान्यथेति द्रढयितुमुक्तमपि स्मारयन्नाह—यत्रेति / ऋषभादीनामित्यनेन वैधर्योदाहरणाद् ऋषभादेः साध्यसाधनयोयावृत्तिसन्देहं दर्शयति / ' नन्वस्मदागमे तद्गुणद्वययोगिनस्ते कथितास्तत्कथमनयोस्ततो व्यावृत्तिः सन्दिह्यत इत्याह-यदि नामेति / पठ्यन्त इति च वचनव्यक्त्या च पाठमात्रेण तेषां तद्गुणयोगः सिद्धः, न तु प्रमाणेनेति दर्शयति / अत एवाह-तथापीति // त्रीनिति दृष्टान्तदोषान् / 1 भादेः। ऋष० C. 2 योगत्वस्य A. / व्यावृत्तिः C. E. 4 परिपठ्यन्ते D. 5 अपराण्यपि त्रीण्युदा० D. ६०रागो वक्त *D. B. P. H. E.N. 7 वैधर्योदाहर. B. P. H. E. N. त्वात् / यत्रावी. C. 8 यत्र वीत B.P.H. E. 5 नास्ति स वक्ता B.P.H.E.नास्ति सन वक्ता C. 10 व्यावृत्तया सर्वो-B. P. H. व्यावृत्तं यो सर्वो० E. वृतं तथा सर्वो.C.