________________ 247 3.131.] - दृष्टान्तदोषाः / ...सन्दिग्धसाधनव्यतिरेको यथा—न त्रयीविदा ब्राह्मणेन ग्राह्यवचनः कश्चिद् विवक्षितः पुरुषो रागादिमत्त्वादिति / अत्र वैधर्योदाहरणम्-ये ग्राह्यवचना न ते रागादिमन्तः। तद्यथा २गौतमादयो धर्मशास्त्राणां 3 प्रणेतार इति / गौतमादिभ्यो रागादिमत्त्वस्य साधनधर्मस्य व्यावृत्तिः संदिग्धा // 131 // संदिग्धः साधनव्यतिरेको यस्मिन् स तथोक्तः। तमुदाहरति-यथेति / ऋक्सामयजूंषि त्रीणि त्रयी तां वेत्तीति त्रयीवित् / तेन न ग्राह्यं वचनं यस्येति साध्यम् / विवक्षित इति कपिलादिर्धर्मी। रागादिमत्त्वादिति हेतुः। अत्र प्रमाणे वैधर्योदाहरणम्-साध्याभावः साधनाभावेन यत्र व्याप्तो दय॑ते तद् वैधर्योदाहरणम् / ग्राह्यं वचनं येषां ते ग्राह्यवचना इति साध्यनिवृत्तिमनद्य न ते रागादिमन्त इति साधनाभावो विहितः। गौतम आदिर्येषां ते तथोक्ता मन्वादयो धर्मशास्त्राणि स्मृतयस्तेषां कर्तारः। त्रयीविदा हि ब्राह्मणेन ग्राह्यवचना धर्मशास्त्रकृतो वीतरागाश्च त इतीह धर्मी व्यतिरेकविषयो गौतमादय इति / गौतमादिभ्यो रागादिमत्त्वस्य साधनस्य निवृत्तिः संदिग्धा / यद्यपि ते ग्राह्यवचनास्त्रयोविदस्तथापि कि सरागा उत वीतरागा इति संदेहः॥ संदिग्धोभयव्यतिरेको यथा-अवीतरागाः कपिलादयः, परिग्रहाग्रहयोगादिति / अत्र वैधये॒णोदाहरणम्-यो वीतरागो न तस्य परिग्रहाग्रहः / पद्यते / तस्याप्यन्यस्माद् / अनादिश्च संसार इति कथमेतावन्मात्रेण वर्धमानादेः सर्वज्ञत्वसिद्धिरिति // त्रयोऽवयवा यस्याः संहतेरिति त्रयीत्यदन्तात् डीप् / किमत्र साध्या भावानुवादेन साधनाभावो विहितो येनैतद् वैधर्योदाहरणं भवतीत्याशङक्याह–साध्येति / गौतमोऽक्षपादापरनामा न्यायसूत्रस्यापि प्रणेता मुनिः। मनुरिति स्मृतिकारो मुनिः / आदिशब्दाद् विश्वरूपयाज्ञवल्क्यसंवृत्तादेः सङग्रहः / इतिस्तस्मात् / धमित्वमात्रजिज्ञापिषया धर्मी व्यतिरेकविषय इति अभिधाय तस्यैव विशेषनिष्ठप्रतिपादनेच्छया गौतमादय इत्युक्तम / 'इन्द्रियमनस्कार[ज]मेतद्राजा(मेतज्ज्ञा)नमित्यादिवत् तस्माद् वैधर्मी दृष्टान्तो गौतमादिरिति वाक्यार्थः / तथात्वं च तेषां तथात्वेनोपादानान्न तु परमार्थत इत्यवसेयम् / ग्राह्यवचनत्वेऽपि तेषां कथं ताद्रूप्यसन्देह इत्याह-यद्यपीति / उतेति पक्षान्तरमुद्द्योतयति // .. कश्चित् पुरुषो-B. P. H. E. 2 गोतमा० D. 3 धर्मशास्त्रप्रणे. C. 4 वेत्ति त्रयी० A. B. D. P. H. E. N. ५.भावेन व्याप्तो यत्र दर्यते-A. P. H. E. इतीह धमिव्य० C. D. इति धर्मी A. P. H. N. इति धमिव्य० E. . ७.विदा तथापि A. P. H. E. N. संदिग्धम्-स०