________________ * ' 246 तृतीयः परार्थानुमानपरिच्छेदः / [ 3.130. गम्बराणी शास्ता' सर्वज्ञश्च आप्तश्चेति / तदिह वैधर्योदाहरणाद् ऋषभादेरसर्वज्ञत्वस्यानाप्ततायाश्च व्यतिरेको व्यावृत्तिः संदिग्धा। यतो ज्योतिर्ज्ञानं चोपविशेद असर्वज्ञाश्च भवेद् अनाप्ता वा। कोऽत्र विरोधः? नैमित्तिकमेतज्ज्ञानं व्यभिचारि न सर्वज्ञत्वमनुमापयेत् // आदिशब्देनान्यातीन्द्रियज्ञानं संग ह्यते / ऋषभवर्षमाननामधेयावहीकाणामिष्टदेवी / आदिशब्देन पाश्र्वनाथारिष्टनेमिप्रभतेः सङग्रहः / शास्ता स्वदृष्टमन्योपदेष्टा। सर्वज्ञश्चाप्तश्चेत्यनेन द्वयस्यापि साध्यस्याभावं दर्शयति / यदाह-अकलङ्कः-"यदि सुक्ष्मे व्यवहिते वा वस्तुनि बुद्धिरत्यन्तपरोक्षे न स्यात्कथं तहि ज्योतिर्ज्ञानाविसंवादः ? ज्योतिर्ज्ञानमपि हि सर्वज्ञप्रवर्तितमेव, एतस्मादविसंवादिनो ज्योतिर्ज्ञानात्सर्वज्ञसिद्धिः / तदुक्तम्--- धीरत्यन्तपरोक्षेऽर्थे न चेत्पुंसां कुतः पुनः / ज्योतिर्ज्ञानाविसंवादः श्रुतत्वाच्चेत्साधनान्तरम् / " [सिद्धिवि० पृ० 413] इति / कथं पुनः सत्यपि ज्योतिर्ज्ञानाद्युपदेशे विपक्षादृषभादेरसर्वज्ञत्वादेावृत्तिः सन्दिग्धेत्याहयत इति / अत्र सर्वज्ञतायामनिष्टायां सत्यामपि ज्योतिर्ज्ञानाद्युपदेशे को विरोधोऽनुपपत्तिः ? क्षेपे किमः प्रयोगान्न कश्चिदित्यर्थः / अथासर्वज्ञत्वे तस्यैतस्मादिदं ग्रहोपरागादि भावि ततश्चैवं भावीति ज्ञानं कथं वृत्तं येन सम्बादि तथोपदिशेत् / तस्मात् सर्वज्ञ एवासाविति निश्चय इत्याशङक्याह-नैमित्तिकमेतविति / एतज्ज्योतिर्ज्ञानादिकं निमित्तात्परम्परया कारणाद् / विषयेण च ..विषयिणो निर्देशान्निमित्तदर्शनादागतं नैमित्तिकम्, अत एव तदुपदेष्टुः सर्वज्ञता व्यभिचरतीति / तथा सर्वज्ञतामन्तरेणापि भवतीदानीन्तनज्योतिषिकाणामिवाऽतीन्द्रियोपरागादिज्ञानमित्यभिप्रायः / तथाभूतं ज्ञानं न सर्वज्ञतामनुमापयेदनुमापयितुं शक्नोति। ननु च तथाभूतेन भाविवस्तुना सह कस्यचित्कार्यकारणभाव एव तेन कश्चिद् ज्ञातः / यद्य[81a]सावसर्वज्ञो भवेद् असर्वज्ञश्च कथमुपदिशेदिति चेत् / न। एतदन्यतोऽपि ज्ञात्वा तदुपदेशसम्भवात् / तस्यान्यतस्तथाविधात्। न चादिमान् संसारः। येन स एवाद्यस्तथा ज्ञानी सर्वज्ञः, स चास्माकमृषभादिरित्यप्युच्येत / अथवा-यद्यसावसर्वज्ञस्तदा तस्य तथाभूतस्य साध्यसाधनभावस्याविदुष उपदेशादस्मदादीनामतीन्द्रियोपरागादिज्ञानं संवादि च कथं भवेदित्याशङक्याह-नैमित्तिकमिति / अयमर्थः--कारणदर्शनस्वभावकार्यज्ञानमेतत् एतच्च भाविवस्तुव्यतिरेकेण भवेद्गपि, नावश्यं कारणानि कार्यवन्ति भवन्तीति न्यायात् / एतच्च व्यभिचारि ज्ञानमुपदिश्यमानं नोपदेष्टुः सर्वज्ञतामनुमापयितुं कल्प्यते। अथ तदेव तस्य तथाभूतस्य कारणवस्तुनस्तत्तद्भाविवस्तु प्रंति कारणत्वं कथं जानीयात्कथं चोपदिशेद् यद्यसावसर्वज्ञ इति चेत् / अन्यतस्तद्धि ज्ञात्वा ज्ञातं(न) चोपदेशश्च तस्योप 1 शास्ता साध्यव्यतिरेकः सर्व० C 2 'च' नास्ति A.B.P.H.E.N.