________________ 3.127..] दृष्टान्तदोषाः। 243 इति वक्तृदोषावयं दृष्टान्तदोषः। वक्त्रा ह्यत्र परः प्रतिपादयितव्यः / ततो यदि नाम न दुष्टं वस्तु तथापि वक्त्रा दुष्टं दर्शितमिति दुष्टमेव // तथा विपरीतान्वयः-यदनित्यं तत् कृतकमिति // 127 // तथा विपरीतोऽन्वयो यस्मिन् दृष्टान्ते स तथोक्तः। तमेवोदाहरति—यदनित्यं तत् कृतकमिति / कृतकत्वमनित्यत्वनियतं दृष्टान्ते दर्शनीयम् / एवं कृतकत्वादनित्यत्वगतिः स्यात् / अत्र त्वनित्यत्वं कृतकत्वे नियतं दर्शितम् / कृतकत्वं त्वनियतमेवानित्यत्वे / / ततो यादृशमिह कृतकत्वमनियतमनित्यत्वे 'दशितं तादृशान्नास्त्यनित्यत्वप्रतीतिः। तथाहियदनित्यमित्यनित्यत्वमनद्य तत् कृतकमिति कृतकत्वं विहितम् / अतोऽनित्यत्वं नियतमुक्तं कृतकत्वे, न तु कृतकत्वमनित्यत्वे। ततो यथाऽनित्यत्वादनियतात् प्रयत्नानन्तरीयकत्वे न प्रयत्नानन्तरीयकत्वप्रतीतिः, तद्वत् कृतकत्वावनित्यत्वप्रतिपत्तिर्न स्याद्, अनित्यत्वेऽनियतत्वात कृतकत्वस्य। साधार्थः साधर्म्यप्रतिपादनप्रयोजन उपात्तस्तस्मानिरुपयोगः स / तस्मादर्थे वा। अर्य चशब्दात् परो द्रष्टव्यः। ननु कृतकत्वानित्यत्वयोस्तावद् वस्तुतोऽन्वयोऽस्त्येव / तत्कथं विद्यमानेऽपि तस्मिन् तथाऽप्रदर्शनमात्रेणासौ दृष्टान्तो दुष्यतीत्याह-वक्तुदोषादिति / वक्ता हीत्यादिनैतदेव समर्थयते / ननु वक्तवासौ तथा प्रदर्शयन्नपराध्यतु, अन्यस्य दृष्टान्ततपस्विनः कोऽपराध इति चेत् / स्वकार्याऽकरणमेव दोषः / तदकरणं तस्य स्वत एव (एवाड)सामर्थ्याद्, अन्येनान्यथाप्रदर्शनाद् वाऽस्तु / किमेतावता तदकरणं तस्य नास्त्येवेति सूक्तं वक्तृदोषादयं दृष्टान्तदोष इति // विपरीतोऽन्वय इति वैपरीत्येन प्रदर्शनाद् विपरीत उक्तो न तु विपरीतोन्वयोऽस्त्येव / कीदृशोऽविपरीतोऽन्वयो यस्मादयं विपरीत इत्याह-कृतकत्वमिति / एवं प्रदर्शने को गुण इत्याह-एवमिति / एवं कृतकत्वस्यानित्यत्वे नियतत्वप्रदर्शने सति / अत्र पुनः कुत्र किं नियतमित्याह-अत्रेति / तुरिमामवस्थां विशेषवतीं दर्शयति / अनित्यत्वानुवादेन कृतकत्वस्य विधानाद् विधीयमानस्य व्यापकतया नियमविषयत्वादित्यभिसन्धिः / कृतकत्वं पुनः कीदृशं दर्शितमित्याह--[कृतकत्वमिति / तुरनित्यत्वात् कृतकत्वं भिनत्ति / अनित्यस्वेऽनियतमिति कोऽर्थोऽनित्यत्वेऽपि कृतकत्वं भवति, अन्तरेण कृतकत्वमिति / अनित्यत्वानियतादपि कृतकत्वादि (द)नित्यत्वं प्रतिपश्येत इत्याह--तत इति / यत एवमनुवादविधिक्रमे कृतकत्वमनित्यत्वानियतं दर्शितं भवति, ततस्तस्मादिह प्रयोगे। यावृशमिति विधीयमानम् / पूर्वमेवंवादिनाऽनित्यत्वं कृतकत्वे नियतं दर्शितम, न कृतकत्वमनित्यत्वे चेति प्रतिज्ञामात्रेणोक्तमधुना तु येन प्रकारेण तस्यैव प्रदर्शनमायातं तथाहीत्यादिना तद् दर्शयति / अनित्यत्वं प्रयत्नानन्तरी ___ _ __ 1 दृष्टान्तेन E. २०कत्वनियतं D... 3 त्वनियतमेवोक्तमनित्यत्वे C. D. 4 अत्र 'ततः कृतकत्वमनित्यत्वे नियतमेव' इत्यधिकः पाठोऽस्ति E. प्रतौ। ५प्रदर्शितम् A. B. P. H. E. N.