________________ 244 तृतीयः परार्थानुमानपरिच्छेदः / [ 3.118. यद्यपि च कृतकत्वं वस्तुस्थित्याऽनित्यत्वे नियतं तथाप्यनियतं वक्त्रा वर्शितम् / अतः स्वयमदुष्टमपि वक्तृदोषाद् दुष्टम् / तस्माद् विपरीतान्वयोऽपि वक्तुरपराधात्, न वस्तुतः(नः) / परार्थानुमाने च वक्तुरपि ६दोषश्चिन्त्यत इति // साधर्म्यण "दृष्टान्तदोषाः // 128 // साधर्म्यण नव दृष्टान्तदोषा उक्ताः // वैधयेणापि दृष्टान्तदोषान् १०वक्तुमाहवैधयेणापि–परमाणुवत् कर्मवद् श्राकाशवदिति साध्याद्यव्यतिरेकिणः॥१२६ नित्यत्वे शब्दस्य साध्ये हेतावमूर्तत्वे ११परमाणुर्वधर्म्यदृष्टान्तः साध्याव्यतिरेकी / नित्यत्वात् परमाणूनाम् / कर्म साधनाव्यतिरोकि, अमूर्तत्वात् कर्मणः। आकाशसभयाव्यतिरेकि, नित्यत्वादमूर्तत्वाच्च / यकत्वमन्तरेणाचिरप्रभादौ दृश्यमानमनियतं तत्र। तत्र यथाऽनित्यत्वात्प्रयत्नानन्तरीयकत्वाप्रतीतिस्तद्वत् कृतकत्वादप्यनित्य [त्व]नियतान्नानित्यत्वप्रतीतिर्भवितुमर्हति / .. ननु भवतु अनित्यत्वात्प्रयत्नानन्तरीयकत्वाप्रतीतिर्वस्तुतस्तस्य तत्रानियतत्वात्कृतकत्वं तु परमार्थतो नियतमनित्यत्वे। तत्कुतस्तस्मात्तस्याप्रतीतिरित्याह--यद्यपीत्यादि / एवं ब्रुवतोऽयं भाव:--वस्तुतश्छेदनस्वभावोऽपि परशुर्यदाच्छेदकेन भ्रान्त्याऽन्यथा वा उद्वर्त्य बाहुमद्यम्य वैधीभावार्थं धवादौ निपात्यते, तदा तेन स्वयमदुष्टेनापि यथा छिदा-न सम्पाद्यते, तदवदनेनापि परोक्षार्थप्रतीतिर्न सम्पाद्यते, स्वयमदुष्टेनापीति / यस्मादेवं त[80b]स्माद् हेतो वक्तुरनुमापयितुरपराधात् दोषाद् विपरीतान्वयोऽपि दष्टान्तदोष इति दोषः। न केवलमप्रदर्शितान्वय इत्याह-न वस्तुनः कृतकत्वस्यापराधात् / तत्तावत्स्वतोऽदुष्टम् / तत्कि वक्तृदोषेण चिन्तितेनेत्याह-परार्थेति / न केवलं साधनस्य दोषश्चिन्त्यत इत्यपि शब्दात् // यतोऽल्पीयो नास्ति स परमाणुः। वैधर्म्यप्रतिपादन] विषयोपात्तत्वान् वैधर्म्यदृष्टान्त उक्तः। साध्यस्याव्यतिरेको निवृत्त्यभावः सोऽस्यास्तीति तथोक्तः // ''तथाप्यनियतं' नास्ति-B. 2 प्रदर्शितम्-C. 2 अतस्तत् स्वयं न दुष्ट० A.B.P.H.E.N. 4 वक्तुर्दोषात-A. P. H. E. 5 'च' नास्ति C. D. 6 न केवलं हेतो:-टि. * 'दष्टान्तदोषाः' इति नास्ति-B.P.H.E.N hण तदद०B. 9 ०पि नव दृ० A.P.H.EN. 10 वक्तुकाम आह-B.D. 11 परमाणुववैध० A.P.H.E. परमाणुर्वैधhणC