________________ 3.126. ]. दृष्टान्तदोषाः / 241 - उदाहरणम्-रागादिमानिति रागादिमत्त्वं साध्यम् / वचनाद् इति हेतुः। रथ्यापुरुषवदिति दृष्टान्ते रागादिमित्त्वं संदिग्धम् / मरणं धर्मोऽस्येति मरणधर्मा। तस्य भावो मरणधर्मत्वं साध्यम् / अयं पुरुष इति धर्मी। रागादिमत्त्वादिति हेतुः। रथ्यापुरुषे दृष्टान्ते संदिग्धं साधनम्। साध्यं तु निश्चतं मरणधर्मत्वमिति / असर्वज्ञ इति। असर्वज्ञत्वं साध्यम् / रागादिमत्त्वादिति हेतुः। तदुभयमपि रथ्यापुरुषे दृष्टान्ते संदिग्धम् / असर्वज्ञत्वं रागादिमत्त्वं चेति // तथाऽनन्वयोऽप्रदर्शितान्वयश्च / यथा-यो वक्ता स रागादिमान् , इष्टपुरुषवत् / अनित्यः शब्दः कृतकत्वाद् घटवदिति // 126 // तथाऽनन्वय इति / यस्मिन् दृष्टान्ते साध्यसाधनयोः संभवमात्रं दृश्यते, न तु साध्येन व्याप्तो हेतुः, सोऽनन्वयः / अप्रदर्शितान्वयश्च-यस्मिन् दृष्टान्ते विद्यमानोऽप्यन्वयो न प्रदशितो वक्त्रा सोऽप्रदशितान्वयः / अनन्वयमुदाहरति—यथेति / यो वक्तेति वक्तृत्वमनूद्य स रागादिमानिति रागादिमत्त्वं विहितम् / ततो वक्तृत्वस्य रागादिमत्त्वं (वे) प्रतिनियमः। तेन व्याप्तिरुक्ता / इष्टपुरुषवदिति / इष्ट ग्रहणेन प्रतिवाद्यपि संगवते वाद्यपि / तेन वक्तत्वरागादिमत्त्वयोः सत्त्वमात्रमिष्टे पुरुषे सिद्धम् / . व्याप्तिस्तु न सिद्धा। तेनाऽनन्वयो दृष्टान्त इति / अनित्यः शब्द इत्यनित्यत्वं साध्यम् / कृतकत्वादिति हेतुः। घटवदिति' दृष्टान्ते न प्रदशितोऽन्वयः। तत इत्यादि मरणधर्मत्वमित्येतदन्तं सुज्ञानम् / ननु मरणधर्मत्वमप्यस्य कथं निश्चितं येन हेतुरेव सन्दिग्ध उच्यत इति चेत् / सत्यम् / केवलं प्रसिद्धिसमाश्रयेणैवमक्तमित्यवसेयम्। अन्वीयमानत्वं साधनस्य साध्येनान्वयः / स च प्रतिबन्धसाधकप्रमाणाक्षेपात् प्रसिद्ध्यति / यत्र तु तन्नास्ति केवलं सम्भवमात्रं साहचर्यमात्र दृश्यत इत्यभिप्रायः // - वक्तृत्वस्य हेतो रागादिमत्त्वे [79b] साध्ये प्रतिनियमः प्रतिनियतत्वमुक्तमिति शेषः / तेन साध्यनियतत्वेन व्याप्तिरनयोरुक्ता प्रदर्शिता / एवंविधानुवादविध्युपदर्शने तथा प्रतीतेराहत्योदयाद् व्याप्तिरुक्तेत्युक्तम् / न त्वसावनयोर्वाक्यतोऽस्ति / यतो द्वयोरपि वादिप्रतिवादिनोर्दष्टान्तत्वेन सङग्रहः तेन हेतना सत्त्वमात्र सम्भवमात्र साहचर्यमात्रमिति यावत / अस्ति चेष्टिः सहमात्रोपदर्शनमदोषावहमित्याह-व्याप्तिस्त्विति। तुः सत्त्वमात्राद् व्यप्ति भिनत्ति / न सिद्धा न प्रमाणनिश्चिता। अनयोाप्तिसाधकप्रमाणाभावादिति भावः / अप्रदर्शितान्वयमुदाहरन्नाह-अनित्य इति / 1 दृष्टान्तः रा० A. B. D. P. H. E. N. 2 'तथा' नास्ति B. P. H. E. N. 3 ०मत्त्वे वि० A. गृह्यते A. P. H. E.N. ५०दित्यत्र दृ० A. P. H. E.