________________ 240 तृतीयः परार्थानुमानपरिच्छेदः। [ 3. 124 दृष्टान्ताभासानुबाहरति यथा नित्यः शब्दोऽमूर्तत्वात् / कर्मवत् परमाणुवद् घटवदिति / एते दृष्टान्ताभासाः साध्यसाधनधर्मोभयविकलाः // 124 // यथा २नित्यः शब्द इति शब्दस्य नित्यत्वे साध्येऽमूर्तत्वाविति हेतुः / साधर्म्यण कर्मवत् परमाणुवद् घटवदित्येते दृष्टान्ता उपन्यस्ताः। एते च दृष्टान्तदोषाः। साध्यं च साधनं चोभयं चेति / तैर्विकलाः / साध्यविकलं कर्म, तस्याऽनित्यत्वात् / साधनविकल: परमाणुः, मूर्तत्वात् परमाणूनाम् / “असर्वगताद्रव्यपरिमाणं मूर्तिः। असर्वगताश्च द्रव्यरूपाश्च परमाणवः। नित्यास्तु वैशेषिकरिष्यन्ते। ततो न साध्यविकल:६ / घटस्तूभयविकलः, अनित्यत्वान्मूर्तत्वाच्च घटस्येति // तथा संदिग्धसाध्यधर्मादयश्च / यथा-रागादिमानयं वचनाद्रथ्यापुरुषवत् / मरणधर्माऽयं पुरुषो रागादिमत्त्वाद्रथ्यापुरुषवत् / . असर्वज्ञोऽयं रागादिमत्त्वाद्रथ्यापुरुषवदिति // 12 // तथा संदिग्धः साध्यधर्मो यस्मिन् स संदिग्धसाध्यधर्मः / स आदिर्येषां ते तथोक्ताः / संदिग्धसाध्यधर्मः। संदिग्धसाधनधर्मः। संदिग्धोभयः / वृष्टान्ताभासानित्यादि परमाणूनामित्येतदन्तं सुगमम् / कथं परमाणवः साधनविकला न साध्यविकला इत्याह-असर्वेति / परिमाणं मानव्यवहारकारणम्। तच्च गुणत्वाद् द्रव्याश्रयीति / द्रव्यग्रहणेन वास्तवं रूपमन्दितम् / तत्र यदि द्रव्यपरिमाणं मूर्ति रित्येव तावदुच्यते तदाऽऽकाशादेरपि द्रव्यम्य परममहत्त्वनामधेयं परिमाणमस्तीति मूर्तत्वं प्रसज्यत / अतस्तनिवृत्त्यर्थ द्रव्ये विशेषणमसर्वगतग्रहणम् / तत्र परमाणोः परिमाणं भवत्यसर्वगतस्य द्रव्यस्येति दर्शयन्नाह–असर्वगताश्चेति। समवायिकारणं द्रव्यं गुणवद्वति द्रव्यलक्षणयोगाद् द्रव्यरूपः / चकारी पूर्वापेक्षया एकविषयत्वमनयोः समुच्चिनुतः / तत् पुनः परमाणोः परिमाणं पारिमाण्डलसंज्ञकं ज्ञातव्यम् / इयता साधनवैकल्यं दर्शितम् / साध्यावैकल्यं दर्शयन्नाह–नित्यास्त्विति / तुनेनार्थमान्तरेण(?) विशिनष्टि / द्रव्यगुणकर्मसामान्यविशेषसमवायात्मकः पदार्थविशेषैर्व्यवहरन्तीतिः वैशेषिकाः, रूढ (ढे)श्चाभ्युपगतकणावशास्त्रा एवोच्यन्ते / अथवा षटपदार्थीप्रतिपादकतया विशिष्यते तदन्यस्माच्छास्त्रादिति विशेषः काणादं शास्त्रं विवक्षितम् / १०"तद विदन्त्यधीयते वा" इति वैशेषिकास्तरिष्यन्त इति वचनव्यक्त्या चेष्टिमात्रमेतन्न पुनरत्र प्रमाणमस्तीति सूचयति / . १दिति साध्य B. P. H. E. N. 2 यथेति नित्यः A.B.P.H.E.N. 3 इति नित्यत्वे साध्य शब्दस्याम D. B. 4 च। तैविक C. 5 असर्वगतं द्र० A. B. P. H. N. साध्यविकलाः C. D. "घटस्य। E. तथेति-E. ९०भयधर्मः। . 1deg तुलना-"तदधीते तद्वेद" पाणिनि 4.2.59.