________________ 3.123.] दृष्टान्तदोषाः। 239 अस्मिश्चार्थे दर्शिते दर्शित एव दृष्टान्तो भवति / योऽयमों व्याप्तिसाधनप्रमाणप्रदर्शनः कश्चिदुपादेयो निवृत्तिप्रदर्शनश्च-इत्यस्मिन्नर्थे दर्शिते दर्शितो दृष्टान्त इत्याह-एतावन्मात्रं रूपं यस्य तस्य भावस्तत्त्वम् , तस्मादिति / एतावदेव हि रूपं दृष्टान्तस्य, यदुत व्याप्तिसाधनप्रमाण प्रदर्शकत्वं नाम साधम्यं दृष्टान्तस्य, प्रसिद्धव्याप्तिकस्य च साध्यनिवृत्तौ साधननिवृत्तिप्रदर्शकत्वमित्येत"द्वैधHदृष्टान्तस्य / 'एतच्च हेतुरूपाख्यानादेवाख्यातमिति किं दृष्टान्तलक्षणेन ? // एतेनैव दृष्टान्तदोषा अपि निरस्ता भवन्ति // 123 // ___एतेनैव च हेतुरूपाख्यानाद् दृष्टान्तत्वप्रदर्शनेन दृष्टान्तदोषा' दृष्टान्ताभासाः १०कथिता भवन्ति / तथाहि-पूर्वोक्तसिद्धये य उपादीयमानोऽपि दृष्टान्तो न समर्थः स्वकार्य साधयितुं स दृष्टान्तदोष इति सामर्थ्यादुक्तं१२ भवति // अस्मिश्चेत्यादि मलमनद्य व्याचष्टे योऽयमिति। पूर्ववत्प्रदर्शनशब्दस्य व्युत्पत्तिः, समासश्च कर्तव्यः। प्रसिद्धायां व्याप्तौ साध्या[79a] भावे हेतोनिवृत्तिप्रदर्शन इत्यर्थो द्रष्टव्यः / एतावदेवतावन्मात्रम् / अन्यदप्यस्य रूपमस्तीत्याह-एतावदेवेति। हिर्यस्मादेतत् परिमाणमस्येति तथा / एवकारेणान्यस्य ताद्रूप्यनिरासो दृढीकृतः / किं तद्पमित्याह-यदुतेति / निपातसमुदायश्चायं यदेतदित्यस्यार्थे / / येषु दृष्टान्तत्वेनोपात्तेषु स्वकार्यका (क) रणासामर्थ्य दोषः संभवति ते कुतश्चित्सामा, न्याद् दृष्टान्तवदाभासमाना दृष्टान्ताभासा भवन्तीति आर्थं न्यायमाश्रित्याह-वृष्टान्तदोषा दृष्टान्ताभासाः कथिता भवन्तीति। यस्मात्ते दृष्टान्ताभासत्वे[न] कथिता भवन्त्यत एव दृष्टान्तत्वेन निरस्ता भवन्तीत्यत एव मलमर्थतो व्याख्यातमित्यवगन्तव्यम् / दृष्टान्ततत्त्वप्रदर्शनेन यथा दृष्टान्ताभासा (स)कथनं कृतं भवति तथा दर्शयितुं तथा होत्यादिनोपक्रमते / पूर्वोक्तस्य जन्मतन्मात्रानुबन्धस्य सिद्धये निश्चयाय / स्वकार्य साधनसम्भवे साध्यप्रदर्शनसम्भवलक्षणम्, सिद्धव्याप्तिकस्य च हेतोः साध्याभावे साधननिवृत्तिप्रदर्शनलक्षणं च साधयितं य उपादीयमानोऽपि न समर्थः, स दृष्टान्तदोषो दुष्टो दृष्टान्तः, दृष्टान्ताभास इति यावत् / सामर्थ्यात् स्वकार्याकारणलक्षणात् // 1 प्रमाणदर्शिनः A.B.P.H.N. 2 निवृत्तिप्रदर्शकश्च B. / प्रदर्शिते A.P.H.E.N. दृष्टान्तः। कस्मादित्याह-E. 5 प्रमाणदर्शनत्वं A.B.D.P.H.E. 6 वा A. B.D.P.H.E.N. 7 'वैधर्म्यदृष्टान्तस्य एतत्' नास्ति B. 'वैधर्म्यदृष्टान्तस्य' नास्ति. D. 8 तत् A.D.P.H.E.N. प्रागक्तन्यायन-टि० 1 दृष्टान्तस्य दोषाः A. P. H. E. N. 10 निरसनद्वारा कथिता:-टि० 11 ०पि न समर्थः B. .. . १२०ादित्येतदुक्तं B.