________________ 238 तृतीयः परार्थानुमानपरिच्छेदः। [ 3.122. यतस्तत्कार्यतया धूमो वहने नियतः। सोऽयं तत्कार्यतानियमो विशेषलक्षणरूपोऽन्यथा दर्शयितुमशक्यः। स्वभावलिङ्गस्य च स्वभावेन साध्येन व्याप्तिविशेषलक्षणरूपा न शक्या दर्शयितम। यस्मात् कार्यकारणभावस्तादात्म्यं च महानसे घटे च ज्ञातव्यम्, तस्माद् व्याप्तिसाधनं प्रमाणं वर्शयता साधर्म्यदृष्टान्तो दर्शनीयः। वधर्म्यदृष्टान्तस्तु प्रसिद्ध तत्कार्यत्वे कारणाभावे कार्याभावप्रतिपत्त्यर्थम् / तत एव नावश्यं वस्तु भवति / कारणाभावे कार्याभावो वस्तुन्यवस्तुनि वा भवति / ततो वस्त्ववस्तु वा वैधर्म्यदृष्टान्त इष्यते / तस्माद् दृष्टान्तमन्तरेण न हेतोरन्वयो व्यतिरेको वा शक्यो दर्शयितुम् / अतो. हेतुरूपाख्यानादेव हेतोाप्तिसाधनस्य' प्रमाणस्य वर्शकः साधर्म्यदृष्टन्तः। प्रसिद्धव्याप्तिकस्य साध्याभावे हेत्वभाव प्रदर्शनाद्वधर्म्यदृष्टान्त उपादेय इति च / दशितं भवति / लक्षणस्य स्वरूपमाख्यायाख्यान्यथाप्रदर्शनाशक्यत्वं दर्शयन्नाह-सोऽयमिति / ... वैधर्म्यदृष्टान्तस्तहि न प्रदर्शनीय इत्याह-वैधयेति। तुः साधर्म्यदृष्टान्ताद् वैधर्म्यदृष्टान्तं भेदवन्तं दर्शयति। एतच्च यदा व्यतिरेकमुखेण प्रयोगः क्रियते, तत्कालाभिप्रायेणोच्यत इति द्रष्टव्यम। न त्वेकस्मिन प्रयोगे द्वयोपन्यासः सम्भवी। एतच्च प्रागेव निलोठितम् / यतः प्रसिद्ध तत्कार्यत्वे कारणाभावे कार्याभावप्रतिपत्त्यर्थ दर्शनीयो वैधर्म्यदृष्टान्तस्तत एव तस्मादेव कारणात् / नावश्यं नियमेन] वस्तु भवति / वस्त्वप्यवस्त्वपि वैध_दृष्टान्तो भवतीत्यर्थः। यदि हि कस्यचिद् विधिना कस्यचिद् विधिदर्शयितव्यः स्यात्, तदा गम(गगना) दिरसन कथं कस्यचिदाधारः स्यादिति, न सिद्ध्येत्तदुपदर्शनम्। यदा त्वेकस्य व्याप्यस्याभावे अपरस्य व्यापकस्याभावो दर्शयितव्यस्तदा व्यापकस्याऽभावेऽवस्तुनि सुष्ठ सम्भवति / इतरथाsभावेऽपि अस्य भावो विहितो भवेत्। सोऽपि नेति चेत्, अयमेवाभाव इत्यभिप्रायः / वैधर्म्यदृष्टान्तग्रहणं चैतदेकधर्माभावेनापरधर्माभावोपदर्शनविषयोपलक्षणं द्रष्टव्यमन्यथा साधर्म्यदृष्टान्ते त्ववश्यं वस्तु स आश्रय इष्ट इति स्यात् / तथा च सति बह्वसमञ्जसं स्यादिति / यतः कारणाभावात्कार्याभावो वस्तुन्यवस्तुनि च भवति ततः कारणाद् वस्तु महाह्रदादि / अवस्तु आकाशादि / वाशब्दस्तुल्यबलत्वं समुच्चिनोति / . तस्मादित्यादिना प्रकृतमुपसंहरति / व्याप्तिसाधकप्रमाणाधिकरणत्वाद् दर्शयतीति दर्शकः। यद्येवं साध्यसाधकव्याप्तिप्रसाधकप्रमाणप्रदर्शकत्वात्साधर्म्यदृष्टान्त एवोपादेयो न वैधर्म्यदृष्टान्त इत्याह-प्रसिद्धति। वैधर्म्यदृष्टान्त उपादेय इति योजयित्वा कुत उपादेय इत्याशङ्कायां प्रसिद्धेत्यादिहेतुपदं योज्यम् / साध्याभावे हेत्वभावप्रदर्शनात् / तत्रेति बद्धिस्थम् / यद्वा प्रदर्श्यतेऽस्मिन्निति प्रदर्शयतीति वा प्रदर्शनो हेत्वभावस्य प्रदर्शन इति तथा / भावप्रधानत्वान्निर्देशस्य हेत्वभावप्रदर्शनत्वादित्यर्थः / २.त्यर्थः-E. ' साध्यदृष्टा० B. 3 दृष्टान्तव्यतिरेकेण हे. A. P. H. E. N. .वा न शक्यो A. P.H. E.N. 9 भावदर्श० C.D. १०साधकस्य E. 7 'च' एवार्थे-टि० .