________________ 3.122.] दृष्टान्तस्य गतार्थत्वम् / 237 असत्यग्नौ न भवत्येव धूम इति व्यतिरेको दर्शितः। स च यथेतरस्मिन्निति दर्शनीयः / वह्निनिवृत्तिहि धूमनिवृत्तौ नियता वर्शनीया। सा च महानसादितरत्रेति दर्शनीया। यत्र कृतकत्वं तत्रानित्यत्वमिति स्वभाहेतोाप्तिशिता। अनित्यत्वाभावे न भवत्येव कृतकत्वमिति व्यतिरेको दर्शितः। व्याप्तेश्च साधकं प्रमाणं 'साधर्म्यदृष्टान्ते दर्शनीयम् / प्रसिद्धव्याप्तिकस्य च हेतोः साध्यनिवृत्तौ निवृत्तिनियता दर्शनीया। तववश्यं यथा घटे, यथा आकाशे चेति दर्शनीयम् / / कस्मादेवमित्याह-न हीति। यस्मादन्यथा सामान्यलक्षणरूपे सपक्षविपक्षयोः सद्सत्त्वे यथोक्तप्रकारे इति नियते-सपक्ष एव सत्त्वम, विपक्षेऽसत्त्वमेवेति नियमो यथोक्तप्रकार:-ते न शक्य दर्शयितुम् / विशेषलक्षणे हिं दर्शिते यथोक्तप्रकारे सदसत्त्वे दर्शिते भवतः / न च विशेषलक्षणमन्यथा शक्यं दर्शयितुम् / तस्य साध्यस्य कार्यम्-तत्कायें धूमः / तस्य भावस्तत्कार्यता। सैव नियमो अन्वयप्रदर्शनेन साधर्म्यदृष्टान्ताख्यानमाख्याय व्यतिरेकोक्त्याऽपि वैधर्म्यदृष्टांतौ कि (दृष्टान्तोक्ति) दर्शयितुमाह-असत्यग्नाविति / व्यतिरेकप्रदर्शनेऽपि कथं दृष्टान्ताऽऽपतनमिति आशङक्याह-स चेति / चो यस्मादर्थे / इतरस्मिन्नग्निमत्प्रदेशादन्यस्मिन महाह्रदादौ। यत्र कयोश्चिद् व्याप्यव्यापकभावो दर्शयितव्यस्तत्रास्तु दृष्टान्तोपनिपातः, व्यतिरेकोपदर्शने किं तेनेत्याह-वह्नीति / हीति यस्मात् / अत्रापि विध्योविपर्ययेण व्याप्यव्यापकभावो दर्शयितव्य इत्यर्थः / एतच्च व्यतिरेकाख्यानं दृष्टान्तोपदर्शनमुद्दिष्टविषयं प्रयोगमधिकृत्योक्तमित्यधिगन्तव्यम् / ' यत्रेत्यादिना स्वभावहेतुमधिकृत्य दृष्टान्तस्य गतार्थत्वं दर्शयितुमुपक्रमते। एवं प्रदर्शयतां व्याप्तिः, दृष्टान्तावतारकस्तु (रस्तु) कथमित्याह-व्याप्तेश्चेति / चो यस्मात् / प्रमाणाप्रदर्शने व्याप्तेरसिद्धः। तच्च प्रमाणम्, अन्तरेणाधिकरणं न सम्भवतीति. भावः / यद्येवं व्यतिरेक [78b]प्रदर्शने कृतं दृष्टान्तेनेत्याह-प्रसिद्धेति / दर्यतामेव, तथापि दृष्टान्तोपनिपातः कथमित्याह-तदिति / यस्मादेव दर्शनीयं तत्तस्मात् / सच्चासच्च सदसती तयोर्भावस्ते प्रदर्शनक्रियापेक्षया च द्वितीयाद्विवचनान्तमेतत् / यादृश उक्तो यथोक्तः प्रकारः स्वरूपं ययोस्ते तथोक्ते। अस्यैवार्थमाह-नियते इति / सपक्षासपक्षसदसत्त्वयोरुक्तमेव प्रकार स्पष्टयन्नाह-सपक्ष इति / इतिनियमस्याकारं दर्शयति / ते यथोक्तप्रकारे सदसत्त्वे / कथं ते न शक्ये दर्शयितुमित्याह-विशेषेति / हिर्यस्मादर्थे। दर्यतां तर्हि विशेषलक्षणम् / दृष्टान्तस्य तु किमायातमित्याह-न चेति / चो यस्मादर्थेऽवधारणे वा / यद्विशेषलक्षणं दृष्टान्तमन्तरेणाशक्यप्रदर्शनं तत्स्वरूपाख्यानम्। मूलं व्याख्यातुमाह-तस्येत्यादि। विशेष 1 साधर्म्यम् दृ० B. 2 निवृत्तिदर्श० A. B. D. P. H. N. E. . यथोक्तलक्षणे सद० C.