________________ 236 तृतीयः परार्थानुमानपरिच्छेदः / [ 3. 122. भवति / स्वभावस्य तन्मात्रानुबन्धो दर्शनीय उक्तः। तदिति साधनम् / तदेव तन्मात्रम् साधनमात्रम्। तस्यानुबन्धोऽनुगमनम्-साधनमात्रस्य'भावे भावः साध्यस्य / तन्मात्रभावित्वमेव हि साध्यस्य तादात्म्यम् / साधनस्य यवा स्वभावो ज्ञातो भवति, तदा स्वभावहेतोः-सपक्ष एव सत्त्वम्, विपक्षाच्च सर्वस्माद् व्यावृत्तिर्ज्ञाता भवति / तदेवं सामान्यलक्षणं विशेषात्मकं ज्ञातव्यं नान्यथा। ततो विशेषलक्षणमुक्तम् / किमतो यदि नामैव मित्याह-तच्च सामान्यलक्षणं दर्शयितुकामेन विशेषलक्षणं दर्शयतवं दर्शनीयम्-इति संबन्धः / यत्र धूमस्तत्राग्निरिति कार्यहेतोव्याप्तिर्दशिता / व्याप्तिश्च कार्यकारणभावसाधनात् प्रमाणाग्निश्चीयते / ततो यथा महानस इति दर्शनीयम् / ल्लक्षणं न शक्यं ज्ञातुमिति प्रवृत्त्युपयोगितया न शक्यमिति मन्तव्यम् / न तु सामान्य लक्षणस्य वाक्यात्प्रतीतिर्न भवत्येव / विशेषवन्तौ च विशिष्टावित्यर्थः / एतदेव विभज्यमान आचार्यः (आह-कार्यस्ये)त्यादि / ननक्तेऽप्यस्मिन् यदि सामान्यलक्षणप्रतीतिर्नास्ति किमनेनोवतेनापीति / आहजन्मेति / हिर्यस्मादर्थे / ननु स्वभावहेतौ साधनस्वभावता साध्यस्य दर्शयितुं युज्यते, तत्कि तन्मात्रानुबन्धो दर्शनीय उक्त इत्याह-तन्मात्रेति / हिर्यस्मात् / अथ तन्मात्रानुबन्धे दर्शितेऽपि कथं सामान्यलक्षणप्रतिपत्तिरित्याह-साधनस्येति / तदेवमित्यादिनोपसंहारः / अनुपलब्धेश्चानयोरेवान्तर्भावान्न पृथग् विशिष्टलक्षणाभिधानमित्यवसेयम् / .. अथ किं हेतोरन्वयव्यतिरेकावेव लक्षणं येनैतद् द्वयमेव लक्षणलया स्मर्यते / न चैतत्, पक्षधर्मताया अपि लक्षणत्वादभिहितत्वाच्चेति चेत् / सत्यम् / केवलं न हेतोः सर्वरूपमिह प्रक्रान्तम् / किन्तु यद्रूपप्रदर्शनेन दृष्टान्तप्रदर्शनं कृतं भवति तत्प्रकृतमिति / यद्यप्येवं यदि नाम सामान्यविशेषलक्षणाऽभिधानमतोऽभिधानात् किं भवति ? किमः क्षेपे प्रयोगात्, न किञ्चिद् भवतीत्यर्थः / य(त)दित्युत्तरम् / चो यस्मात् / व्याप्तिप्रदर्शनेऽपि कथं दष्टान्ताख्यानमवतरतीत्याह-व्याप्तिश्चेति / हेत्वर्थश्चकारः / कार्यकारणभावसाधनात्प्रमाणान्निश्चीयतां व्याप्तिस्तथापि दृष्टान्तः कथं प्रकृतो भवतीत्याह-तत इति / दृष्टान्तमन्तरेण तदेव प्रमाणं न प्रवर्तेत / तदप्रवृत्तौ च सामान्यलक्षणमेव न ज्ञायतेति भावः / १०मात्रस्यानु० C. D. साधनमात्रम्। साधनमात्रस्यानुब० B. N. ' 2 मात्रभावे A. B. D. P. H. E. N. 3 अथ साधनधर्ममात्रानबन्धः साध्यस्य तथापि तादात्म्यं न स्यादित्याह-टि० 4 यदा साधनस्य च स्व.C 5 तदेव-E.. 6 विशेषलक्षणात्-टि. 7 नामैवं तदित्याह-E प्रागुक्तन्यायन-टि० 8 तत्र A.B.P.H.E. 9 तैवं च दर्श० B 10 प्रत्यक्षानुपलम्भाभ्याम्-टि०