________________ 3. 122. ] दृष्टान्तस्य गतार्थत्वम् / 235 यद्येवं हेतूपयोगिनोऽपि लक्षणं वक्तव्यमेवेत्याह-गतार्थत्वात्—गतोऽर्थःप्रयोजनमभिधेयं वा यस्य दृष्टान्तलक्षणस्य। 'तत् तथा / तस्य भावस्तत्त्वम् / तस्मात् / दृष्टान्तलक्षणं ह्युच्यते दृष्टान्तप्रतीतिर्यथा स्यात / दृष्टान्तश्च हेतुलक्षणादेवावसितः / ततो दृष्टान्तलक्षणस्य यत् प्रयोजनम-दृष्टान्तप्रतीतिस्तद् गतं निष्पन्नम् / अभिधेयं वा गतं ज्ञातं. दृष्टान्ताख्यम् // . कथं गतार्थत्वमित्याह हेतोः सपक्ष एव सत्त्वमसपक्षाच सर्वतो व्यावृत्ती रूपमुक्तमभेदेन / पुनर्विशेषेण 'कार्यस्वभावयोरुक्तलक्षणयोर्जन्मतन्मात्रानुबन्धौ दर्शनीयावुक्तौ / तच दर्शयता-यत्र धूमस्तत्राग्निः, असत्यग्नौ न क्वचिद् धूमो यथा महानसेतरयोः; यत्र कृतकत्वं तत्रानित्यत्वम, अनित्यत्वाभावे कृतकत्वाऽसंभवो यथा घटाकाशयोः-इति दर्शनीयम् / न ह्यन्यथा सपक्षविपक्षयोः सदसत्त्वे यथोक्तप्रकारे शक्ये दर्शयितुम् / तत्कार्यतानियमः कार्यलिङ्गस्य, स्वभावलिङ्गस्य “च स्वभावेन व्याप्तिः / 1 अस्मिंश्चार्थ दर्शिते दर्शित एव दृष्टान्तो भवति / एतावन्मात्ररूपत्वात् तस्येति 1 // 122 // ___ हेतो १२रूपमुक्तमभेदेन सामान्येन। साधारणं कार्यस्वभावानुपलम्भानामेतल्लक्षणमित्यर्थः। किं पुनस्तत् ? सपक्ष एव 13 यत् सत्त्वम्, विपक्षाच्च सर्वस्मात् व्यावृत्तिर्या / रूपद्वयमेतदभेदेनोक्तम् / न च सामान्यमुक्तमपि शक्यं ज्ञातुम् / अतस्तदेव विशेषनिष्ठं वक्तव्यम् / अतः पूनरपि विशेषेण विशेषवन्तौ जन्मतन्मात्रानुबन्धौ दर्शनीयावुक्तौ। कार्यस्य जन्म ज्ञातव्य• मुक्तम् / जन्मनि हि १४ज्ञाते कार्यस्य सपक्ष एव सत्त्वं विपक्षाच्च सर्वस्माद् व्यावृत्तिख़ता हेतावन्तर्भावः, साक्षात्साध्यसिद्धयुपयोगिताप्रसङ्गात्। न च साऽस्य सम्भविनीति / अनेकार्थत्वाद् वा हेतो (धातो)र्गतं निष्पन्नमिति विवृतम् / गत्यर्थानां ज्ञानार्थत्वादपि गतं ज्ञातमित्यपि चोक्तम् // __ ननु च हेतुः सपक्षवृत्तिना विपक्ष (क्षा) वृत्तेनैव च रूपेण गमकः। तच्चेत् कथितं किं विशेषलक्षणकथनेनेत्याह-न चेति / चोऽवधारणे हेतौ वा। सामान्यं साधारणं प्रकरणा त् नास्ति E. N. ज्ञानं B. P. H. E. गतं दृष्टा० A. / गतार्थमि० E. 4 व्यावृत्तरूप० B, P. व्यावृत्तो रूप० H. ५.स्वभावयोर्जन्म B. D. P. H. E.N. संभवोऽस्ति C. 7 नियम-C. वा C. 1 स्वभावव्याप्तिरिति-C. 1. अस्मिन्नर्थे-C. 11 'इति' नास्ति C. 12 रूपमभेदेनोक्तं सा० A. D. P. H. E. 13 'यत' नास्ति B. C. D. १४,विज्ञाते A. P. H. E.