________________ 234 तृतीयः परार्थानुमानपरिच्छेदः। [ 3. 121 एवा त्रिरूपो हेतुरुक्तः। तावता चार्थप्रतीतिरिति न पृथग्दृष्टान्तो नाम साधनावयवः कश्चित् / तेन नास्य लक्षणं पृथगुच्यते गतार्थत्वात् // 121 // त्रिरूपो हेतुरुक्तः, तत् किं दृष्टान्तः ? स्यादेदत्तावता नार्थप्रतीतिरित्याह–तावता उचेति / उक्तलक्षणेनैव हेतुना भवति साध्यप्रतीतिः। अतः स एव गमकः। ततस्तद्वचनमेव साधनम् / न दृष्टान्तो नाम साधनस्यावयवः। यतश्चायं नावयवः, तेन नास्य दृष्टान्तस्य लक्षणं हेतुलक्षणात् पृथगुच्यते। कथं तहि हेतोाप्तिनिश्चयो यद्यदृष्टान्तको हेतुरिति चेत् / नोच्यते हेतुरदृष्टान्तक एव / अपि तु न हेतोः पृथग्दृष्टान्तो नाम / हेत्वन्तर्भूत एव दृष्टान्तः। अत एवोक्तं नास्य लक्षणं पृथगुच्यत इति / न त्वेवमुक्तम्-नास्य लक्षणमुच्यत इति / चोदयन्नाह-नन चेति / अथ कथं साधनावयत्वं हेतूनां येन साधनावयत्वाद यथा हेतव उक्ता इत्युच्यते ? तथा हि साध्यते निश्चीयते साध्यमनेनेति साधनम् / पक्षधर्मान्वयव्यतिरेकवल्लिङ्गमुच्यते / तदाख्यानादेव च वाक्यमपि साधनमुच्यते / न तु वाक्यात्साध्यसिघ्युपयोगितया हेतुरपि तदेव तद्वचनमपीति / द्वेधाऽपि तं समुदायमपेक्ष्यास्यावयवत्वं येनैवम्च्यत इति / न / अभिप्रायापरिज्ञानात् / इहैवं पूर्वपक्षवादी मन्यते / परोक्षोऽर्थो निश्चीयमानो हेतुदृष्टान्ताभ्यां निश्चीयते। न तु हेतुनव। अदृष्टान्तकस्य हेतोः साध्यसाधनाशक्तेः। . ततश्च हेतुदृष्टान्तसमुदायः साध्यस्य साधनम्। तत्र यथा समुदायापेक्षया हेतुरूपोऽवयव उक्तस्तदाभासश्च तथा साधनावयत्वाविशेषत्वाद् दृष्टान्तरूपोऽपरोऽयमवयवः सप्रतिपक्षः किन्नोक्त इति। एवञ्चोदयन्नयमेव साधनावयत्वाद्यभिधानमिति / तत्प्रसङ्गन तत्प्रस्तावेन / उक्तं पक्षधर्मान्वयव्यतिरेकात्मकं लक्षणं यस्य तेन / एवकारेण दृष्टान्तस्य साक्षात सिद्धयुपयोगितां निरस्यति / यत एवमतो हेतोः, स इति हेतुः / नियमेन दृष्टान्तस्य गमकरूपविरहं द्रढयति। यतः साक्षात् सिद्धिरुपजायते, स एव गमयति प्रत्याययति साध्यमिति कृत्वा उच्यते, नान्य इति भावः / यस्माद् हेतोरेव गमकत्वं ततस्तस्मात् तस्य हेतोस्त्रिरूपस्य वचनं साधनं साधनाभिधानं न दृष्टान्तस्येत्यर्थात् / तावता चार्थप्रतीतिरिति मौलमितिशब्दमपेक्ष्य न पृथग्दृष्टान्तो नाम साधनावयव इति मूलं व्याचष्टे न दृष्टान्त इति / अर्थरूपो दृष्टान्तस्तद्वचनं वा, न साधनस्यार्थरूपस्य वचनस्य वा। नावयवो नैकदेशः / हेत्वन्तरर्भूतत्वं च व्याप्तिग्राहकप्रमाणाधिकरणतया हेतावुपयोगात् / न तस्य स्वरू[78a]पेण त्रिलक्षणो हेतु० C. प्रमाणविनि,748.chonie 2 तावतवार्थ. B. D. P. H. E. N. तावता वा (चा)र्थप्रतीतिसिद्धेरिति C. 3 तावता वे(चे)ति-C. तावतैवेति-B. D. P. H. E. N. 4 ततः B. 5 'ततः' नास्ति A. P. H. 'इति' नास्ति B. D. 7 'इति' नास्ति-B.