________________ 3.120. ] विरुद्धाव्यभिचार्यसंभवः / 233 चैकस्यैकदैकत्र सत्त्वमसत्त्वं च' युक्तम्, तयोविरोधात् / तदागमसिद्धस्य सामान्यस्य सर्वगतत्वासर्वगतत्वयोः साध्ययोरेतौ विरुद्धाव्यभिचारिणौ जातौ। उयतः सामान्यस्यकस्य यगपत सर्वदेशावस्थितरभिसंबन्धित्वं चाभ्यपगतम, दश्यत्वं च / ततः सर्वसंबन्धित्वात सर्वगतत्वम्, "दृश्यत्वादन्तरालादनुपलम्भादसर्वगतत्वम् / ततः शास्त्रकारेणैव विरुद्धव्याप्तत्वमपश्यता विरुद्धव्याप्तौ धर्मावुक्त्वा विरुद्धाव्यभिचार्यवकाशो दत्त इति / न च वस्तुन्यस्य "संभवः / इत्युक्ता हेत्वाभासाः॥ ननु च साधनावयवत्वाद् यथा हेतव उक्तास्तत्प्रसङ्गन्न १°च हेत्वाभासाः, तथा साधनावयवत्वाद् दृष्टान्ता वक्तव्यास्तत्प्रसङ्गन च दृष्टान्ताभासाः। तत् कथं नोक्ता इत्याह ततोऽभ्युगतात्सर्वसम्बन्धिनः सर्वसम्बन्धित्वात् / सर्वगतत्वमन्तरेण तदसम्भवादिति भावः / अनुपलम्भेऽपि कथमसर्वगतत्वं निश्चेतुं शक्यत इत्याह-दृश्यत्वात्तत इत्यनुवर्तते / ननु चान्तरालेऽनुपलम्भादिति युज्यते वक्तुम् / तत्किमुक्तमन्तरालादिति / सत्यमेतत् / केवलमनुपलम्भादनुपलम्भव्यवहारादित्यर्थविवक्षितत्वाददोषः / क्वचित्पुनरन्तरालानुपलम्भादिति पाठः। तत्र च यथायोगं समासः / ननु यदि शास्त्रात्मकाऽऽगमकारेणास्य परस्परविरुद्धस्वभावावहं किञ्चिद् द्वयमुक्तं भवेत्, विरुद्धाव्यभिचार्यवकाश। यावतेदमेव नास्तीत्याशङ्कापनोदव्याजेनोपसंहरन्नाह-तत इति / [77b] यत एवं शास्त्रकारेणवेदञ्चेदञ्चाभ्युपगतं ततस्तस्मात् शास्त्रकारेणैव प्रकरणात्कणादेन विरुद्धाव्यभिचारिणोऽवकाशो दत्तः। किं कृत्वा तेन तदवकाशो दत्त इत्याह-विरुद्धेति / परस्परसाध्यविरुद्धत्वव्याप्तिधमौं प्रकरणाद् युगपत्सर्वसम्बन्धिसम्बन्धदृश्यत्वाख्या ( ख्यौ) वक्तुर(?)दृश्यत्वविषयस्यानुपलम्भस्य विरुद्धव्याप्तत्वाद् दृश्यत्वं विरुद्धव्याप्तमिति तु द्रष्टव्यम् / कथं पुनस्तयोर्धर्मयोः परस्परविरुद्धार्थव्याप्तत्वं विदुषा तेनैवमुच्येत येन तदवकाशदानं तस्य कल्प्यत इत्याह-विरुद्धव्याप्तत्वमिति। परस्परविरुद्धसर्वगतत्वासर्वगतत्वलक्षणार्थव्याप्तत्वं तयोर्धर्मयोरित्यर्थात् / अपश्यता अनालोचयता भ्रान्त्या तावदभिधायेति यावत् / इतिस्तस्मात् न वस्तुनि न वस्तुबलप्रवृत्तेऽनमानेऽस्य विरुद्धाव्यभिचारिणो जातिविवक्षयैकवचनम् / इतिरेवमर्थे / तेनायमर्थ:-एवमुक्तेन प्रकारेणोक्ताः कथिता हेत्वाभासाः, कुतश्चित्साम्याद् हेतुवदाभासाः // साम्प्रतं हेतौ तदाभासे च कथिते तुल्यन्यायतयाऽपरमपि स्वाभाससहितं किं नोक्तमिति वा D. 2 तस्मादागम० B. 3 अथ परस्परविरुद्धाव्यभिचारिहेतुदोषः कणादशिष्ययोरेवायम्, न कणादस्यत्याह-टि. 4 ०भिसंबद्धत्वम्-B. भिसम्बन्धत्वम्-D. 5 दृश्यत्वादन्तरालानुपल० A. B. C. D. P. H. E. N. 6 कणादद्वारेण-टि० 7 धर्मावुक्तौ। इह विरुद्धा. B. धर्मावुक्तौ विरु० C. D. . 'च' नास्ति B. D. 9 ०स्य हेतोः संभव: B. D. विरुद्धाव्यभिचारिण:-टि० 1. 'च' नास्ति -D. 30