________________ 232 तृतीयः परार्थानुमानपरिच्छेदः / [ 3.120. पक्षधर्मत्वं दर्शयितुमाह-नोपलभ्यते चेति / 'व्यक्त्यन्तरालं-व्यक्त्यन्तरं च व्यक्तिशून्यं चाकाशम् / दृश्यमपि कस्यांचिद्वयक्तौ गोसामान्यमश्वादिषु व्यक्त्यन्तरेषु व्यक्तिशन्ये चाकाशे नोपलभ्यते। तस्मान्न तेष्वस्तीति गम्यते / अयमनुपलम्भः पूर्वोक्तश्च स्वभावः 4 परस्परस्य विरुद्धौ यावर्थो तयोः साधनात् तावेकस्मिन् धर्मिणि संशयं जनयतः / न ोकोऽर्थः परस्परविरुद्धस्वभावो भवितुमर्हति / 'एकेन चार व्यक्त्यन्तरेषु व्यक्तिशन्ये चाकाशे सत्त्वम्, अपरेण चानुपलम्भेनासत्त्वं साध्यते। न . कणादस्यैवापर: शिष्यः पैठरस्तस्य प्रयोगम्। पिठरोऽवयविद्रव्यम्। पूर्ववदुपचारात्पिठरशब्दस्तेन व्यवहरतीति तथोक्तः / असद्ध्यवहार्यत्वमसदिति व्यवहारणीयत्वं विहितम्। कस्याञ्चित्सास्नादिमत्यां व्याप्ती (व्यक्ती) व्यज्यते सामान्यमनयेति व्यक्तिः। प्रागुक्तस्तावत्स्वभाव:, अयं तु किंसंज्ञको हेतुरित्याह-अयमिति / प्रागुक्तं स्मारयति पूर्वेति / तुशब्दश्चशब्दस्यार्थे। तावेतौ हेतू धर्मिण्येकस्मिन सामान्याख्य। संशयं प्रकृतयोः साध्ययोरित्यर्थात् कथं संशयं जनयत इत्याह / एकस्यैव तौ विवक्षितसर्वगतत्वासर्वगतत्वलक्षणी स्वभावी भविष्यत इत्याह-न हीति / हिर्यस्मात् / परस्परविरुद्धौ स्वभावौ यस्येति तथा। ननु चात्र विरुद्धावेव धर्मावेकस्य सामान्यस्य द्वाभ्यामेताभ्यां सिद्ध्येते इति / तत्किमेतदुच्यत इत्याह-एकेनेति / चो यस्मादर्थे / एकेनेति प्रागुक्तेन स्वभावेन / अपरेणेति पश्चादुक्तेन। तमेवाह अनुपलम्भेन प्रकरणाद् दृश्यानुपलम्भेनेति नेयम् / साधयतां तर्हि व्यक्त्यन्तराले सामान्यस्य सत्त्वमसत्त्वं च एतौ हेतू का क्षतिरिह-इत्याह-न चेति। चोऽवधारणे / सत्त्वमसत्त्वं च द्वयोर्द्वाभ्यां साधने किमनुपपन्नमित्याशङक्याह-एकस्यापि / कालभेदे किन्नवं सम्भवतीत्याशङक्याह-एकदैवेति / कस्याप्येकदैवाधिकरणभेदेऽप्येतदित्याशङक्याहएकत्रेति। कथमयुक्तमित्याह-तयोरिति / तयोः सत्त्वासत्त्वयोः / विरोधात्परस्परपरिहारव्यवस्थितरूपत्वात् / कथं पुनरागमाश्रयानुमानाश्रयत्वं विरुद्धाव्यभिचारि[णी] त्याशङक्योपसंहारव्याजेन यथाऽनयोस्तथात्वं तथा दर्शयन्नाह-तदिति / यत एवं तत्तद्वदेकं सामान्यं कणादेन उक्तम्, तद्रूपविचारे तच्छिष्याभ्यामेवं प्रक्रान्तं तत् तस्मादागमसिद्धस्यागमप्रतिपादितस्यानुपलम्भेनापि व्यक्त्यन्तरालासत्त्वप्रतिपादनद्वारम् (द्वाराऽ) सर्वगतत्वस्य साधनात् / सर्वगतत्वासर्वगतत्वयोः साध्ययोरेतावित्याह। एतावन्तं (?) तथोक्तौ हेतू / विरुद्धाव्यभिचारित्वमेवानयोरुपदर्शयन्नाह-यत इति। चकारः पूर्वापेक्षया समुच्चये। 1 व्यक्तेरन्तरालं A. B. P. H. 3 चोपलभ्य A. B. P. H. 5 स्वभावेन-टि० . रेषु शून्ये चाका० A. 4 परस्परविरु० A. B.C. P. H. E.N. 6 'व्यक्त्यन्तरेषु'-नास्ति-B.