________________ 231 3.120. विरुद्धाव्यभिचार्युदाहरणम् / 'तद्देशरूपनिवेशनमेव तत्क्रोडीकरणम्। ततस्तत्समवायः / तस्माद् यद् यत्र समवेतं तत् तद्रव्यं व्याप्नुवदात्मना तद्देशे संनिहितं भवति / तदयमर्थः-तद्देशस्थवस्तुव्यापनं तद्देशसत्तयो व्याप्तम् / तद्देशसत्ताऽभावे तद्वयापनाभावाद् व्यापनलक्षणः समवायसंबन्धो न स्यात् / अस्ति च व्यापनम् / अतस्तदेशे संनिहितत्वमिति / तदयं स्वभावहेतुः / / पैठरप्रयोगं दर्शयन्नाह द्वितीयोऽपि प्रयोग :-यदुपलब्धिलक्षणप्राप्तं सन्नोपलभ्यते न तत् तत्रास्ति। तद्यथा-क्वचिदविद्यमानो घटः। नोपलभ्यते चोपलब्धिलक्षणप्राप्तं सामान्य व्यक्त्यन्तरालेष्विति / अयमनुपलम्भः५ स्वभावश्च परस्परविरुद्धार्थसाधनादेकत्र संशयं जनयतः // 120 // द्वितीयोपि–इति / यदुपलब्धेर्लक्षणतां विषयतां प्राप्तं दृश्यमित्यर्थः। एतेनदृश्यानुपलब्धिमनूद्य 'न तत् तत्रास्ति' इत्यसद्व्यवहार्यत्वं विहितम् / ततो व्याप्यदृश्यानुपलब्धापकमसद्वयवहार्यत्वं दर्शितम्। तद्यथेति क्वचिदसन् घटो दृष्टान्तः / योज्यम् / उभयत्रापि तु समवाय (यि)शब्देनाधारोऽभिप्रेतः। स्वात्मानं निवेशयत्युपनयति / ... ननु तद्व्यापनं तत्क्रोड़ीकरणमभिप्रेतम् / तत्कथं सम्बन्धिनि स्वात्मनि निवेशनं व्याख्यायत इत्याह-तद्देश इति / स चासौ देशश्च तत्र रूपस्य स्वरूपस्य निवेशनमुपनयनम् / ततस्तस्मात्तद्देशरूपनिवेशनात्तस्य / सम्बन्धिनः समवायः / तस्मादित्यादिनोपसंहारः / ननु तव्यापनमपि भविष्यति, न च तद्देशसन्निहितस्वभावतेत्याशङक्याह-तदयमिति / यत आत्मना तद्व्यापनलक्षणेन सम्बन्धेन तद्व्याप्यमानदेशसन्निधानमुक्तं तत्तस्मादयं तात्पर्यार्थः। स चासो देशश्च तत्रस्थवस्तुव्यापनं लोकप्रसिद्धदेशापेक्षया तस्य देशस्तद्देशस्तत्र या सत्ता विद्यमानता तया व्याप्तम्। अन्यथा तु स्वरूपेण व्यापनासम्भवादित्यभिप्रायः / तदेव व्यतिरेकमुखेणोपपादयन्ना[77a]ह-तद्देशेति। नास्त्येवायं सम्बन्ध इति चेदाह-] अस्ति चेति / चोऽवधारणे। यत उक्तेन क्रमेण स्वभावलक्षणयोगोऽस्यास्ति। तत्तस्मादयं युगपत् सर्वसम्बन्ध्यभिसम्बन्धलक्षणो हेतुः स्वभावः // तद्देशे रूप० D. 2 तत् तत्र द्र० E. . तद्देशसत्ताया अभावे B.C. घट इति C. 5 लम्भप्रयोगः स्व. D. B. P. H. E. N. 6 नूद्य तत्तत्र B. नूद्य त (न) तत्तत्र A. नूद्य तत्तत्तत्र P. H. 7 व्यवहारविषयत्वं विहितम् D. 8 व्याप्यस्य दृ० E..