________________ 230 तृतीयः परार्थानुमानपरिच्छेदः / [3. 119. ननु च गवां संबन्धी स्वामी। न च 'गोदेशे सन्निहितस्वभावः। तत् कथं तत्संबन्धित्वात् तद्देशत्वमित्याहन हि यो यत्र नास्ति स तद्देशमात्मना व्यामोतीति स्वभावहेतुप्रयोगः // 11 // न हीति / यो यत्र देशे नास्ति स देशो यस्य स तद्देशः तं न व्याप्नोत्यात्मना स्वरूपेण / इह सामान्यस्य तद्वतां च समवायलक्षणः संबन्धः। स चाभिन्नदेशयोरेव / तेन यत्र यत समवेतं तत् तदात्मीयेन रूपेण क्रोडीकुर्वत् 'समवायिरूपदेशे स्वात्मानं निवेशयति / त्तद्देशसन्निहितस्वभावतेत्याह-तस्मादिति / तस्मात्तत्सम्बन्धिमात्रानुबन्धिनीति / तद्देशस- . निहितस्वभावताऽऽकाशस्य दृष्टा तस्मात् कारणात् / यस्य वस्तुनस्तेषां (नो येषां)सम्बन्धी स्वभावः / हिरवधारणे सम्बन्धीत्यस्मात्परो द्रष्टव्यः / तद् वस्तु नियमेनावश्यतया तेषां सम्बन्धीनां देशे सन्निहितं भवति / यत एवं सामान्यन्यायस्ततः। तस्मादिति पाठे भावगतिः / कस्मादिति तु क्वचित्पुस्तके पाठः / स तु युक्तरूपः / तत्सम्बन्धिस्वभावमा वमात्रानुबन्धिनी तद्देशसन्निहितस्वभावतेति व्याख्या। कस्मादेतदिति कारणाकाङक्षासम्बन्धात्। तदनन्तरं च यस्य होत्यादेः सामान्योत्तरस्य, तत इत्यादेश्चोपसंहारव्यपदेशेन विशेषोत्तरस्य सुमो (यो)ज्यत्वादिति / यत्र तु तस्य भावस्तत्तेति पाठः तत्र सर्वमवदातम् / / ननु चैकदेशस्थमेव सामान्यं युगपत्सर्वैः सम्बन्धिभिरभिसम्भन्त्स्यते / तत्कि तस्य व्यापा- : रासम्भवेनावेदितेनेत्याह-इहेति / स इति समवायः / चकारः पुनः शब्दस्यार्थे / अभिन्नदेशयोरिति लोकप्रसिद्धदेशापेक्षयोक्तम् / न तु शास्त्रप्रसिद्धदेशापेक्षयेति द्रष्टव्यम् / अन्यथा यदा(था पट)तन्तनां समवायो न स्यात् / पटस्य तन्नथा (तन्तवो) देशः / तन्तूनां पुनरंशवः / सामान्यतद्वतोश्च न स्यात् / गोत्वसामान्यस्य गौर्देशः / गोश्च सास्नादयोऽवयवा इति / अथवा सामान्यलक्षणयुगा(योगा)पेक्षया अभिन्नदेशत्वं विवक्षितम् / न तु प्रत्येकापेक्षम् / तेनायमर्थ:-कुण्डबदरवद् यत्र द्वावपि सम्बन्धिनौ भिन्नदेशौ न तयोः समवायः / ययोस्त्वे. कतरस्यान्यतरो देशस्तयो समवाय इति / एवञ्च पटतन्तूना सामान्यतद्वतोश्च नासङग्रह इति / येन कारणेनाभिन्नदेशयोरेव समवायस्तेन प्रथमव्याख्याने समवायिरूपस्य समवायिस्वभावस्य देश इति / द्वितीयव्याख्याने समवायिरूपमेव समवायिस्वभाव एव देश इति विगह्य तस्मिन्निति न च तद्देशे संनि A. B. P. H. E. न च तद्देशसंनि. N. २०भावः स्वामी A. B. P. H. E. N. कथं संबं० A. B.C.D. P. H. N. 4 लक्षणसंब०A. कार्तृ-टि० कर्म-टि० 8 समवायरूप० C. अत्र मूले 'तस्य भावः। कस्मात् ?' इति पाठः कल्प्यः-सं० 5 अनेन B.