________________ 3. 118.] विरुद्धाव्यभिचायुदाहरणम् / 229 देशेषु सामान्यं स्थितं साधयितुं प्रमाणमिदमुपन्यस्तम् / यथाकाशमिति-व्याप्तिप्रदर्शनविषयो दृष्टान्तः। आकाशमपि हि सर्वदेशावस्थितर्वक्षादिभिः स्वसंयोगिभिर्युगपदभिसंबध्यमानं सर्वगतं च / अभिसंबध्यते च सर्वदेशावस्थितैः स्वसंबन्धिभिरिति हेतोः पक्षधर्मत्वप्रदर्शनम् // अस्य स्वभावहेतुत्वं योजयितुमाहतत्संबन्धिस्वभावमात्रानुबन्धिनी तद्देशसंनिहितस्वभावता // 118 // तत्संबन्धीति / तेषां सर्वदेशावस्थितानां द्रव्याणां संबन्धी सामान्यस्य स्वभावः स एव तत्संबन्धिस्वभावमात्रम् / तदनुबध्नातीति तदनुबन्धिनी / कासावित्याह-तद्देशसंनिहितस्वभावता। तेषां संबन्धिनां देशस्तद्देशः। तद्देशे संनिहितः स्वभावो यस्य तत तद्देशसंनिहितस्वभावम् / तस्य भावस्तत्ता / यस्य हि येषां संबन्धी स्वभावः तन्नियमेन तेषां देशे संनिहितं भवति / ततस्तत्संबन्धित्वानुबन्धिनी तददेशसंनिहितता सामान्यस्य / / युगपदेककालम् / चः पूर्वापेक्षया समुच्चये समवायेन सम्बन्धेन सम्बद्धत्वम् / एवमभिहिते कणादेन तच्छिष्येण पैलुकेन / पीलवः परमाणवः / पीलुपाके चायं पीलुशब्द उपचारासता स्त्येन (उपचरितोऽस्ति / तेन) निमित्तेन व्यवहरतीति पैलुकः / तेनाविवक्षिताऽऽन्तरभेदस्य युगपत्सर्वसम्बन्धमात्रहेतुत्वादाकाशस्य दृष्टान्तरूपता द्रष्टव्या / न तु सामान्यस्येवास्य सम्बन्धिभिः समवायेन सम्बन्धः / संयोगलक्षणेनास्य सम्बन्धेन सम्बन्धात् / ... एतदेवाभिप्रेत्याह-आकाशमपीति / हीति यस्मात् / स्वसंयोगिभिरिति वास्तवानुवादः / न त्वेतत् प्रकृताङ्गम्। दार्टान्तिकेऽस्यानपपत्तेः / चोऽभिसम्बन्ध (न्ध्य)मानत्वेन सह सर्वगतत्वस्यकविषयतां समुच्चिनोति // द्रव्याणां गवादीनाम् / एतच्च गोत्वादिसामान्यविवक्षयोक्तम् / उपलक्षणं द्रव्यग्रहणं कर्तव्यम्, इतरथोत्क्षेपणत्वादिसामान्यस्यासङग्रहः स्यात् / एतच्च तस्य भाव इत्येदन्तं सुगमम् / "तस्मादित्यनेनार्थागतं स्वभावहेतुत्वनिमित्तं दर्शयति / न तु तद्धितप्रत्ययान्ते पञ्चम्यस्ति यां व्याचक्षीत / अयं त्वस्यार्थ:-यस्माद् युगयत् सर्वदेशावस्थितसम्बन्धिसम्बन्धः स्वसत्तामात्रानुबन्धिनि साध्ये हेतुः, तस्मात्स्वभावहेतुत्वमस्येति / ननु तत्सम्बन्धिनोऽपि तद्देशसन्निहित स्वभावतैव कुतो येनैवं भवतीत्याह-यस्येति / हिर्यस्मात् / यतोऽयं सामान्यन्यायः ततस्त[.6b] स्मात् / यद्वा सर्वसम्बन्धित्वेऽपि कस्माप्रमाणमुप० C. २०ते वा सर्व B. 'प्रयोजयितुमाह-A. B. P. H. N. योजयन्नाह–E. 4 स्वभाव: C D. E. '' अत्र मूले 'तस्य भावः। तस्मात्' इति पाठः कल्प्यः-सं०