________________ 228 तृतीयः परार्थानुमानपरिच्छेदः / [ 3.117. तत्रोदाहरणम्-यत् सर्वदेशावस्थितैः स्वसंबन्धिभिर्युगपदभिसंबध्यते तत् सर्वगतम् / यथाऽऽकाशम् / 3 अभिसंबध्यते च सर्वदेशावस्थितैः स्वसंबन्धिभिर्युगपत् सामान्यमिति // 117 // - यत् सर्वस्मिन् देशेऽवस्थितः स्वसंबन्धिभिर्युगपदभिसंबध्यते "इति सर्वदेशावस्थितरभिसंबध्यमानत्वं सामान्यस्य अनद्य सर्वगतत्वं विधीयते / तेन युगपदभिसंबध्यमानत्वं सर्वगतत्वे . नियतं तेन व्याप्तं कथ्यते / इह सामान्यं कणादमहर्षिणा निष्क्रियं दृश्यमेकं चोक्तम् / युगपच्च सर्वैः स्वः सम्बन्धिभिः समवायेन संबद्धम् / तत्र पैलुकेन कणादशिष्येण व्यक्तिषु व्यक्तिरहितेषु च यतस्ते कल्पनया न स्थापितास्ततः कारणात् / भ्रान्तविपर्यासस्यावसरोऽवकाशः / येन भ्रान्त्यवकाशेन // कस्यानुवादेनात्र कस्य विधिरित्या[76a]ह–सर्वेति / सर्वदेशावस्थितैः-स्वसम्बन्धिभिरित्यर्थात् / यत एवमनुवादविधिक्रमस्तेन हेतुना / ननु सर्वैः स्वसम्बन्धिभिर्युगपदभिसम्बन्धो नाम सामान्यस्य युगपत्सर्वसम्बन्धिसमवाय एव / सर्वगतत्वमपीदमेवास्येति / कथमनयोावृत्तितोऽपि भेदसम्बन्धभावतो गम्यगमकभाव इति चेत् / नैष दोषः / नानादेशस्थैः स्वसम्बन्धिभिः शावलेयादिभिर्युगपदभिसम्बन्धो हेतु: / सम्बन्धिदेशतदन्तरालव्यापित्वं तु साध्यमिति गम्यगमकभावो न विरुध्यते। सर्वसम्बन्धिभिर्युगपदभिसम्बन्धश्चागत्वाऽनागच्छद्भिरिति द्रष्टव्यम् / अथ केन विरुद्धो (द्धा) व्यभिचारिप्रसवबीज धर्मद्वययोः किमभ्युपगतं येन तयोः सन्निपाताद् विरुद्ध(द्धा)व्यभिचारिसम्भव इत्याह-इहेति / इह सामान्यपदार्थविचारप्रक्रमे / कणमत्तीति कणादः। रूढिवशाच्चायं शब्दः काश्यपे मुनौ वर्तते। स चासौ महर्षिश्चेति / हेतुभावेनास्य विशेषणत्वात् कणादत्वादेव महर्षिः / एवं तस्य हि काष्ठागता निःस्पृहता यतोऽन्यरवो(?)स्वभोज्यादिकमपि परित्यज्य कणमात्रं भुक्त्वा ध्यानादिकमाचरति / अतोऽसावन्येभ्यः सातिशयवान् भवतीति। निष्क्रिय क्रियाशन्यममर्तत्वात् / एकमनानारूपम्, प्रत्येक स्वाश्रयेषु लक्षणाविशेषाद्, विशेषलक्षणाभावाच्च / न तु समवायादेकं त्रिलोक्यां सामान्यम्, प्रत्ययभेदात् परस्परतोऽन्यत्वात् / गोत्वादीनाञ्च निष्क्रियत्वेन सहाऽस्यकत्वं समुच्चिनोति / 1 अत्रोदा० E. 2 ०तैः संबन्धिभिः संब० C. तैः स्वसंबन्धिभिः संब० B.P.H.N. . ०काशमिति C. 4 'च' नास्त्रि B. P. H. E. 5 ध्यते तत्सर्वः A. B. P. H. E. N. 6 दृश्यमेवोक्तम् B. ___ 7 सर्वैः स्वः स्वः संब० A. P. H. E. N. सर्वैः स्वः स्वः स्वसंब. B. " प्रमाणविनि : 23.12.73 B. Chemi.