________________ 3.116. ] विरुद्धाव्यभिचार्यसंभवः / 227 तत् तहनुमान 'मागमसिद्धरूप्यं क्वाधिकृतमित्याह-उतदर्थेति / तस्यागमस्य योऽर्थोऽतीन्द्रियः प्रत्यक्षानुमानाभ्यामविषयीकृतः सामान्यादिस्तस्य विचारेषु प्रक्रान्तेषु आगमाथयमनमानं संभवति / तदाश्रयो विरुद्धाव्यभिचार्युक्त आचार्येणेति // कस्मात् पुनरागमाश्रये प्यनुमाने संभव इत्याहशास्त्रकाराणामर्थेषु भ्रान्त्या 'विपरीतस्वभावो पसंहारसंभवात् // 11 // शास्त्रकृतां विपरीतस्य वस्तुविरुद्धस्य स्वभावस्य उपसंहारो ढोकनमर्थेषु / तस्य संभवाद् विरुद्धाव्यभिचारिसंभवः / भ्रान्त्येति विपर्यासेन / विपर्यस्ता हि शास्त्रकाराः सन्तमसन्तं स्वभावमारोपयन्तीति // यवि शास्त्रकृतोऽपि भ्रान्ताः, अन्येष्वपि पुरुषेषु क आश्वास इत्याहन ह्यस्य संभवो यथावस्थितवस्तुस्थितिष्वात्मकार्यानुपलम्भेषु // 116 // नहीति / न हेतुषु कल्पनया हेतुत्वव्यवस्था। अपि तु वस्तुस्थित्या। ततो यथावस्थितवस्तुस्थितिष्वात्मकार्यानुपलम्भेष्वस्य संभवो नास्ति। अवस्थितं परमार्थसद्वस्तु तदनतिक्रान्ता यथावस्थिता '°वस्तुस्थितिर्व्यवस्था 1 येषां ते - यथावस्थितवस्तुस्थितयः। ते हि यथा वस्तु स्थितं तथा स्थिताः। न कल्पनया। ततस्तेषु न भ्रान्तेरवकाशोऽस्ति येन विरुद्धाव्यभिचारिसंभवः स्यात् / / तत्र विरुद्धाव्यभिचारिण्युदाहरणम् ननु चेत्यादि विपर्यस्ता हीत्येतदन्तं सुगमम् / शास्त्रकारा इति तीथिकशास्त्रप्रणेतार इति द्रष्टव्यम्, तद्वचनस्यैव प्रमाणबाधितत्वेन तेषामेव विपर्यस्तत्वात् // अन्येष्वपीति कार्यादिहेतुप्रयोक्तृषु / यथावस्थितवस्तुस्थितिष्विति-अस्य तात्पर्यार्थमाह-न हेतुष्विति / ततः कल्पनया हेतुत्वाद्य (त्वव्य)वस्थायाः / अर्थक्रियासमर्थत्वं परमार्थसत् / कथं ते तथारूपा इत्याह-ते हीति / ते कार्यादयो हिर्यस्मादर्थे। हेतुभावे चैतद्विशेषणम् / यतस्ते यथावस्थितयस्ततस्तेष्वसम्भवो नास्तीत्यर्थः / सत्यां स्थितौ किं न सम्भव इत्याह-तत इति / 2 सिद्धं त्रैरू. C 4 ०श्रयोऽप्य A. 6 भावस्योपसं० N. . नुमानेनागम A.B.P.H. ०त्याह तस्यागम० B. 5 विपरीतस्य स्वभा० B.P.H.E. ०कारास्तं तमसन्तं स्वभा० E. संभवोऽस्ति यथा० C. 10 स्थितवस्तु० C 12 तथा स्थापिता न C. D. 9 ०ष्वात्मकार्येषूपलम्भेषु-B. P. H. 11 स्थितिव्यव० A. B. P. H. E. 13 अतः A. B. P. H. E. N.