________________ 226 तृतीयः परार्थानुमानपरिच्छेदः / [ 3.113. कार्यस्य कारणाज्जन्मलक्षणं तत्त्वम् / स्वभावस्य च साध्यव्याप्तत्वं तत्त्वम् / यत् कार्यम्, यश्च स्वभावः, स कथमात्मकारणं व्यापकं च स्वभावं परित्यज्य भवेद् येन विरुद्धः स्यात् / अनुपलम्भस्य च उक्तलक्षणस्येति / दृश्यानुपलम्भत्वं 'चानुपलम्भलक्षणम् / तस्यापि२ वस्त्वभावाव्यभिचारित्वान्न विरुद्धत्वसंभवः // स्यादेतत्-एतेभ्योऽन्यो भविष्यतीत्याह न चान्योऽव्यभिचारी // 113 // न चान्य एतेभ्योऽव्यभिचारी त्रिभ्यः / अत एवष्वेव हेतुत्वम् // क्व तह्याचार्यदिग्नागेनायं हेतुदोष उक्त इत्याह तस्मादवस्तुदर्शनबलप्रवृत्तमागमाश्रयमनुमानमाश्रित्य तदर्थविचारेषु विरुद्धाव्यभिचारी साधनदोष उक्तः // 114 // यस्माद् वस्तुबलप्रवृत्तेऽनुमाने न संभवति तस्माद् आगमाश्रयमनुमानमाश्रित्य विरुद्धाव्यभिचार्युक्तः। आगमसिद्धं हि यस्यानुमानस्य लिङ्गत्ररूप्यं तस्यागम आश्रयः / ननु चागमसिद्धमपि रूप्यं प्रमाणसिद्धमित्याह-अवस्तुदर्शनबलप्रवृत्तमिति / अवस्तुनो दर्शनं विकल्पमात्रम् तस्य बलं सामर्थ्यम् / ततः प्रवृत्तम्-अप्रमाणाद्विकल्पमात्राद् व्यवस्थितं त्रैरूप्यमागमसिद्धमनुमानस्य / न तु प्रमाणात् / नहीत्यत्रस्थस्य हिशब्दस्यार्थो यस्मादित्यनेनोक्तः। विरुद्धतायाः एकसाधन साधितस्यार्थस्य प्रत्यनीकपक्षसाधनरूपतायाः / एतदुक्तं भवति-स्वसाध्याव्यभिचारिणा हि भवता कार्येण स्वभावेन वा भाव्यम् / न च वस्तुनस्तदतत्स्वभावौ स्तो येन तदतत्स्वभावाव्यभिचारिणौ द्वौ हेतू सन्निपतन्ती विरुद्धाव्यभिचारिणौ स्यातामिति। येन कार्यस्वभावयोः कारणव्यापकृविधिना कृतसद्भावेन विरुद्धं तत्रैव धर्मिणि हेत्वन्तरसाधितार्थं विरुद्धसाधनं भवेत् / यद्येवमनुपलम्भे तत्सम्भविष्यतीत्याह-अनुपलम्भस्येति / चः पूर्वापेक्षः समुच्चये // यत एतदतिरिक्तोऽव्यभिचारी [न] सम्मत [अत] एवास्मादेव कारणात् / एष्वेव कार्यस्वभावानुपलम्भेष्वेव / / कथमागमाश्रयत्वमनुमानस्येत्याह-आगमसिद्धमिति / हिर्यस्मादर्थे / सति तस्मिन्नागमेऽनुमानस्य प्रवृत्तेरसावाश्रयस्तस्य / 10 त्वमनुप० A.B.C.P.H.E. N 2 तस्यापि च स्वभावा० A.B.P.H. 3 ०संभवः स्यात् / एते. A.P.H. ०संभवः स्यादेति (?) तत् एते०B. 4 अत एव तेष्वेव A.B.P.H.E.N. अत एवैतेष्वेव C.