________________ 3.112..] विरुद्धाव्यभिचार्यसंभवः / 225 सत्यम् / उक्त आचार्येण / मया त्विह नोक्तः / कस्मादित्याह अनुमानविषयेऽ संभवात् // 111 // अनुमानस्य विषयः प्रमाणसिद्धं रूप्यम् / यतो हि अनुमानसंभवः 2 सोऽनुमानस्य विषयः। प्रमाणसिद्धाच्च त्रैरूप्यादनुमानसंभवः / तस्मात् तदेवानुमानविषयः / तस्मिन् प्रक्रान्ते न विरुद्धाव्यभिचारिसंभवः। प्रामाणसिद्ध हि त्रैरूप्ये प्रस्तुते स एव हेत्वाभासः संभवति यस्य प्रमाणसिद्ध रूपम् / न च विरुद्धाव्यभिचारिणः प्रमाणसिद्धमस्ति रूपम् / अतो न संभवः। ततोऽसंभवात नोक्तः // 'कस्मादसंभव इत्याह न हि संभवोऽस्ति कार्यस्वभावयोरुक्तलक्षणयोरनुपलम्भस्य च विरुद्धतायाः // 112 // न हीति / यस्मान्न संभवोऽस्ति विरुद्धतायाः / कार्यं च स्वभावश्च तयोरुक्तलक्षणयोरिति / अनुमानस्य त्रैरूप्याल्लिङ्गसम्बन्धिनोऽन्यस्मात् त्रैरूप्यं विषयः / यथा मत्स्यानां विषयो जलमिति / एतदेवाह-यत इति / हिर्यस्मादर्थे / प्रक्रान्ते प्रस्तुते अनुमानविषयो (ये) वै(4)रूप्ये सति / - कस्मात्तत्र विरुद्धाव्यभिचारिणोऽसम्भव इत्याह-प्रमाणेति / हीति यस्मात् / स एव हेत्वाभासो विरुद्धाव्यभिचार्याख्यः सम्भवति यस्य प्रमाणेन सिद्धं रूपं पक्षधर्मान्वयव्यतिरेकात्मकमिति विवक्षितम् / अयमाशयः यदि तदेकेन द्वाभ्यां वा रूपाभ्यां हीनं स्यात्तदेष्वेव हेत्वाभासेष्वन्तर्भवेत् / न त्वेतदतिरिक्तो विरुद्धाव्यभिचारी नाम हेत्वाभासो भवेत् / भवता त्वनेन प्रमाण सिद्धत्ररूप्येणव भाव्यमिति / अस्तु तस्य तथात्वमित्याह-न चेति / चोऽवधारणे, व्यक्तमेतदित्यस्मिन्नर्थे वा / एवं ब्रुवतश्चास्यायमभिप्रायः-वस्तुनः परस्परविरुद्धरूपद्वयासम्भवाद् अवश्यमनयोरेकमसम्पूर्णाङ्गमिति // कुतः पुनरनुमानविषयेऽस्यासम्भवोऽवसीयत इत्यभिप्रेत्य पृच्छति पर:-कस्मादिति . 1. विषये तस्यासं० C 2 अनुमानसद्भाव: A.B.C.P.H.N. अनुमानस्य संभव: E 3 अनुमानसद्भावः A.B.P.H.N 4 ततोऽसंभवो नोक्तः A.B.P.H. 5 वा D. 29 .