________________ 224 तृतीयः परार्थानुमानपरिच्छेदः / त्रयाणां रूपाणामसिद्धौ' सन्देहे च२ हेतुदोषानुपपाद्योपसंहरन्नाह एवमेषां त्रयाणां रूपाणामेकैकस्य द्वयोर्द्वयोर्वा रूपयोरसिद्धौ संदेहे वा' यथायोगमसिद्धविरुद्धानैकान्तिकास्त्रयो हेत्वाभासाः // 106 // . एवमित्यनन्तरोक्तेन क्रमेण / एषां मध्य एकैकं रूपं "यदाऽसिद्धं संदिग्धं वा भवति, द्वे द्वे वाऽसिद्ध संदिग्धे वा भवतः, तदासिद्धश्च विरुद्धश्चानकान्तिकश्च ते हेत्वाभासाः। . यथायोगमिति। यस्यासिद्धौ संदेहे वा यो हेत्वाभासो युज्यते स तस्याऽसिद्धः संदेहाच्च व्यवस्थाप्यत इति यस्य यस्य येन येन योगो यथायोगमिति // विरुद्धाव्यभिचार्यपि संशयहेतुरुक्तः। स इह कस्मानोक्तः 1 // 110 // ननु चाऽऽचार्येण विरुद्धाव्यभिचार्यपि संशयहेतुरुक्तः / हेत्वन्तरसाधितस्य विरुद्धं यत् तन्न व्यभिचरतीति विरुद्धाव्यभिचारी। यदि वा विरुद्धश्चासौ साधनान्तरसिद्धस्य धर्मस्य विरुद्धसाधनात्, अव्यभिचारी च स्वसाध्याव्यभिचाराविरुद्धाव्यभिचारी॥. .. स्वतोऽ(तो) दुष्टस्ततो वक्तृदोषो युज्यत एवेति चेत्। तर्हि विरुद्धत्वमपि वक्तदोषोऽस्तु न्यायस्य समानत्वात् / शक्यते हि तत्राप्येवमभिधातुम्-वक्ताऽयमननुरूपे साध्ये प्रयुक्त विपर्ययसाधनाद् विरुद्धतामनुभवति न त्वयं स्वतो दुष्टो नामेति / विवक्षितार्थसाधनासामर्थ्य तावदस्य स्वतोऽस्ति तेना (न) हेतुदोष एवायमिति चेत् / इहापि निश्चितार्थनिश्चयनं तावदस्य स्वतोऽस्तीति कथं न वैयर्थ्यं तस्य दोष इति चिन्त्यतामिति / निग्रहस्त्वेवंवादिनोऽसाधनाङ्गवचनाद् बोद्धव्यः / सिद्धि[:] साधनं तदङ्गम् धर्मो यस्यार्थस्य विवादाश्रयस्य वादप्रस्तावाद् हेतोः / स साधनाङ्गः / तथा यो न भवति तस्याप्रस्तुतस्याभिधानादिति कृत्वेति सर्वमेवावदातम् / केचित्पुनरेवमसिद्धेऽन्तर्भावयितुं प्रयतन्ते। अन्ये तु विरुद्धे / यथा च तेषां प्रयतिर्यथा तदभजमानमभिधानं तथा स्वयूथ्यविचार एवाभिहित इति तत एवापेक्षितव्य इति // त्रयाणामित्यादि व्यवस्थाप्यत इत्येतदन्तं सूबोधम् / यस्येति हेत्वाभासस्य / सर्वहेत्वाभाससङग्रहणार्थं यस्येति द्विरुक्तं येन [75b] येन दोषेण योगः सम्बन्धः / एतच्चार्थकथनम् / योगानतिक्रमेणेति विग्रहः कार्यः॥ ननु चेत्यादीत्याहेत्येतदन्तं सुगमम् / १०मसिद्धिसंदेहे हेतु० C. 3 एवं त्र० B.D.P.H.E.N. 5 यदसिद्धं A.B.P.H.N. . 'येन' नास्ति B. 1 ०रति स विरु० A.B.P.H.E.N. 2 वा D. 4 च B.P.H.E.N. 6 'वा' नास्ति-B 8 ०स्य यद्विरुद्धं तन्न-B.D.