________________ 3.108..] असाधारणानकान्तिकनिरूपणम् / 223 किञ्चैवं प्रमेयत्वादेरपि न संशयः स्यात् / शक्यते हि तत्रापि वक्तुमुभयत्र दर्शनात् संशयो न प्रमेयत्वादिति / अथ तस्य तावदुभयत्र दर्शनं तेन तस्मादुच्यते। यद्येवं वस्तुधर्मत्वमपि श्रावणत्वस्यैवेति कथं न तस्मादसौ। अपि चोर्ध्वत्वमपि यद्यपि स्थाणुपुरुषयोरपि दृष्टं तथापि तावत्तत्रान्तरेणात्रैव भविष्यतीति पर्यनुयोगे सतीदमेव वाच्यम्-यदुतोवत्वं नाम वस्तुधर्मः / वस्तुना चैवंविधिः-स्थाणुना पुरुषेण वाऽवश्यं भाव्यमिति / तथा च वस्तुधर्मादेव संशयो नोर्ध्वत्वादित्यनिष्टापादनं-केन निराक्रियतेत्यलं विस्तरेण / साधनस्य सिद्धेर्यन्नाङ्गमसिद्धो विरुद्धोऽनकान्तिको हेत्वाभासः। तस्यापि वचनं वादिनो निग्रहस्थानमसमर्थोपादानात्। तस्मादेवंविधो हेत्वाभासः स्वयमप्रयोज्यः परप्रयुक्तश्चावश्यमुद्भावयितव्य इति हेत्वाभासव्युत्पादने वार्तिककारस्याभिप्रायो बोद्धव्यः / स्यादेतत्-असमर्थविशेषणोऽसमर्थविशेष्यश्चास्ति प्रभेदः। यथाऽनित्यः प्रमेयत्वे सति कृतकत्वात् / अत्र कृतकत्वं विशेष्यमेव साध्यसिद्धौ समर्थम्, न तु प्रमेयत्वं विशेषणमित्यसमर्थं विशेषणम्, यत्र विशेष्यमेव समर्थमिति कृत्वा भवत्यसमर्थविशेषणो हेतुः / यञ्च (च्चा) नित्यः शब्दः कृतकत्वे सति प्रमेयत्वादिति / अत्र हि कृतकत्वं विशेषणमेव साध्यसिद्धौ समर्थम्, न तु प्रमेयत्वं विशेष्यमित्यसमर्थं विशेष्यम् / यत्र हि विशेषणमे [75a] व समर्थमिति कृत्वा भवत्ययमसमर्थविशेष्यो हेतुः / शेषमुभयीविधास्वन्तर्भाव्यताम् / न तावदसिद्धे, द्वयोरपि धमिणि सिद्धेः / न च विरुद्ध, विपर्ययव्याप्त्यभावात् / नाप्यनैकान्तिके कृतकत्वविशिष्टप्रमेयत्वस्य प्रमेयत्वविशिष्टकृतकत्वस्य च साध्याऽव्यभिचारात् / तस्मादसिद्धत्वादेरन्य एवायं हेतुदोषप्रकारः प्राप्त इति / तदेतदवद्यम्, हेत्वदोषात् / यदि ह्येवमयं प्रयुक्तो हेतुर्द्विष्यत् (त) तदाऽस्यामीषु हेतुराशिष्वन्तर्भावश्चिन्त्येत, अन्यो वा हेतूदोषोऽभ्यपगम्येत / यावता नैवमयं प्रयुक्तोऽन्यथेति साध्यसाधनादिति / न तोवं वादी निगृह्यत इति चेत् / किं न निगृह्यते, असाधना. ङ्गवचनात् ? उभयत्रापि साध्यसिद्धयनङ्गस्य प्रमेयत्वस्यासमर्थस्याभिधानात् / यथा च साध्यसिद्धयनङ्गस्य वचने निग्रहोऽवश्यंभावी, अनिग्रहे वा दोषः, तथा वादन्यायऽवादीन्यावादीति ततस्तदपेक्षितव्यः। ततोऽयमों वक्तृदोष एव न हेतुदोषः। तेनानन्तर्भावेऽपि न हेत्वाभासानुषङ्ग इति / भवतु तावदत्रेयं गतिः। सिद्धसाधने तु साधने कि भविष्यति ? न तावत् सिद्धसाधनं साधन म]सिद्धत्वाद्यन्यतमदोषदूषितं साध्यसाधनसामर्थ्याप्रच्युतेरिति / अत्रोच्यते-इह हेतुधा दुष्यति / कश्चिदसामर्थ्यात्, अपरो वैयर्थ्यात् / तत्रासामर्थ्य एव दोषो वार्तिककारेणाऽनन्तरोक्तेन क्रमेण त्रिधा दर्शितः / न तु वैयर्थ्यलक्षणः। सिद्धसाधनं तु वैयर्थ्यलक्षणोऽन्य एवायं हेतोः स्वगतो दोष इति कस्मादस्यान्तर्भावश्चिन्तनीयः ? यदाहाचार्य:-"अन्यथानिष्ठं (ष्टं) भवेद् विफलमेव वा। तथा न साध्यत्वे वैकल्याद् इत्यादीति / वक्तृदोष एवंष इत्यपि वार्ता, यथायोगं परिपूर्णसाधनरूपाभिधानादनुपयुक्तानभि पानाच्च वक्तुरदुष्टत्वात् / वक्ताऽयं हेतुनिश्चितो (ता)ऽर्थप्रयुक्तो वैयर्थ्यमनुभवति। न तु