________________ 222 तृतीयः परार्थानुमानपरिच्छेदः / [ 3. 108 कस्मादनकान्तिक इत्याह' साध्येतरयोरतो निश्चयाभावात् // 108 // साध्यस्य, इतरस्य च विरुद्धस्य अतः-संदिग्धान्वयव्यतिरेकान्निश्चयाभावात् / सपक्षविपक्षयोहि सदसत्त्वसंदेहे न साध्यस्य न विरुद्धस्य सिद्धिः / न च सात्मकानात्मकाभ्यां परः प्रकारः संभवति / ततः प्राणादिमत्त्वाद धर्मिणि जीवच्छरीरे संशय आत्मभा-. वाभावयोरित्यनकान्तिकः प्राणादिरिति / अस्तु सदसत्त्वसंशयोऽन्वयव्यतिरेकनिश्चयस्तु किन्न भवतीत्याह-यत इति / न भावनिश्चयो नाभावनिश्चय इत्येकत्र सात्मकेऽनात्मके वेति द्रष्टव्यम् / सात्मकेऽनात्मके वा प्राणादेः सदसत्त्वनिश्चयाभावादेवान्वयव्यतिरेकयोः संहो नान्यथेति प्रतिपादयितुमाह- . यदि त्विति / तुरिमामवस्थां भेदवतीमाह / ___ उक्तमेवोपसंहरन्नाह-यतश्चेति / चोऽवधारणे / तस्मात् सन्देहात् अनैकान्तिकः प्राणादिमत्त्वाख्यो हेतुरिति प्रकरणात् // सन्दिग्धावन्वयव्यतिरेको यस्य तत्तथा, तस्मात्साध्यस्य विरुद्धस्य वा निश्चयाभावात् / सपक्षेत्यादि [74b] नैतदेव समर्थयते। हिर्यस्मात् / सपक्षविपक्षयोविषयभूतयोर्हेतोः सदसत्त्वसन्देहे न साध्यस्यानमित्सितस्य विरुद्धस्य विपर्ययस्य सिद्धिनिश्चयः। विरुद्धोऽपि विपर्यये सम्यग्घेतुरित्यभिप्रायेणेदमुक्तम् / ने चेत्यादि प्राणादिरित्यन्तं सुगमम् / ईदृश एव चासाधरणो हेतुः कश्चिन्नैयायिकैरनुपसंहार्य इत्युक्तम् / ततोऽनुपसंहार्योऽयं हेत्वाभास इति शब्दश्रवणार्थ..... 'साहः करणीयः / / उद्योतकरस्तु श्रावणत्वाख्येऽसाधारणहेतावाचार्यदिग्नागेन दर्शित इदमवादीत"यद्येतच्छावणत्वं नित्यानित्ययोर्दृष्टं स्याज्जनयेत्तयोः संशयमूर्ध्वत्वमिव स्थाणुपुरुषयोः। न च दृष्टम् / तस्मान्नायं संशयहेतुरपि त्वप्रतिपत्तिहेतुरेव / अथ श्रावणत्वं वस्तुधर्मः / वस्तुना नित्येन भाव्यमनित्येन वा प्रकारान्तराभावात् / न च तयोरेकत्रापि दृष्टम् / अतस्तयोः संशयं करोति / तर्हि वस्तुधर्मत्वात् संशयो न श्रावणत्वादिति।" तुल्यन्यायतयाऽत्राप्य साधारणे तदीयमिदमीदृशं चर्चितमासज्यत एवेति "कथमयं संशयहेतुरुपपादयितव्यः" इति साधूक्तं तेन / केवलं गमकरूपविवेचने समीचीनमनो न प्रहितम् / यतो वस्तुधर्मत्वं श्रावणत्वस्य नित्याकारसंस्पशिज्ञानजनने निबन्धनम् / न तु तस्मादेव वस्तुधर्मादुभयाकारसंस्पर्शी प्रत्ययो दोलायते। न च यद्यस्य प्रतिपत्तिकारणे कारणम्, तत एव सा प्रतिपत्तिः, न तु तस्मादिति शक्यते वक्तुम् / तदुत्पत्तेरग्निप्रतिपत्तिर्न तु धूमादित्यस्याभिधानप्रसङ्गात् / 1 'इत्याह' नास्ति A. B. C. D. P. H. N. 2 असिद्धिः B. ३०भ्यां च परः A. B. P. H. N.