________________ 3.105 ]. असाधारणानैकान्तिकनिरूपणम् / 219 यद्येवमन्वयोऽस्तु तयोनिश्चित इत्याह न' तत्रान्वेति // 103 // न तत्र सात्मकेऽनात्मके वाऽर्थेऽन्वेति-अन्वयवान् प्राणादिः // कुत इत्याह एकात्मन्यप्यसिद्धः // 104 // एकात्मन्यपीति / एकात्मनि सात्मकेऽनात्मके वाऽसिद्धेः कारणात् / वस्तुधर्मतया तयोर्द्वयोरेकत्र वा वर्तत इत्यवसितः प्राणादिः / न तु सात्मक एव निरात्मक एव वा वर्तत इति कुतोऽन्वयनिश्चयः // ननु च प्रतिवादिनो न किञ्चित् सात्मकमस्ति / ततोऽस्य हेतोर्न सात्मकेऽन्वयो' न व्यतिरेक' इत्यन्वयव्यतिरेकयोरभावनिश्चयः सात्मके, न तु सद्भावसंशय इत्याशडक्याहनापि "सात्मकादनात्मकाच तस्यान्वयव्यतिरेकयोरभावनिश्चयः // 105 // ननु घटपटादेरनेकस्मात्प्राणादिनिबर्तमानो दृष्टस्तत्कथं तस्य व्यावृत्तत्वेनासिद्धि- . रित्याह-प्राणादिरिति / ततः सर्वस्मात सात्मकादनात्मकाच्च निवत्त्यनवसायात। कुतः ? सात्मकादनात्मकाच्च प्रतिबन्धासिद्धेरिति चात्र सर्वत्राभिप्रायः / . तनु किमुच्यते न कुतश्चिदिति ? यावता निरात्मकादेव व्यतिरेकोऽस्यावसातुं शक्यः, बौद्धन घटादेनिरात्मकत्वेनेष्टत्वादिति चेत् / यद्येवं जीवच्छरीरमपि बौद्धन तथात्वेनेष्टमिति तस्यापि तथात्वं किन्न भवेत् / अभ्युपगमेन च सात्मकानात्मके विभज्य हेतुं कथयता गमिकत्वमिति यत्किञ्चिदेतत् // तयोरिति विषयसप्तमी। तस्य प्राणादेरिति च शेषः // ननु वस्तुधर्मेण तेनावश्यं क्वापि नियतेन भाव्यम् / तत्कथमन्वयाभाव इत्याहवस्तुधर्मतयेति / न चानियतवृत्तिनिश्चयोऽन्वयो नामेति भावः / ननु चासाधारत्वान्निरात्मकेऽन्वयनिश्चयो मा भूद / व्यतिरेकनिश्चयस्त्वस्तु, निरात्मके . घटादौ प्राणादेरदर्शनादिति चेत् / न / तस्यैव [74a] शरीरस्य निरात्मकत्वसम्भावनायां सर्वस्मान्निरात्मकानिवृत्तिनिश्चयाभावात् / न च तथानिश्चयनिमित्तं प्रतिबन्धनिश्चयोs स्तीति / न च तत्रा०C. D.. न च तत्र D. 3 'एकात्मन्यपीति'-नास्ति A. B.C. D. P. H. N. 4 योरप्येकत्र C. D. ०कत्र तावत् वर्तत इ० C. . अनुगमनं सद्भाव इत्यर्थ:-टि० 6 व्यावृत्तिः-अभाव इत्यर्थः-टि० सात्मकान्निरात्मका० B. D.P. H. E. N.