________________ 218 तृतीयः परार्थानुमानपरिच्छेदः / [ 3. 102 पक्षधर्मश्च भवन सर्वः साधारणोऽसाधारणो वा भवत्यनकान्तिकः। तस्मादुपसंहारव्याजेन पक्षधर्मत्वं दर्शयति तस्माज्जीवच्छरीरसंबन्धी प्राणादिः सात्मकादनात्मकाच सर्वस्माद् व्यावृत्तत्वेनासिद्धस्ताभ्यां न व्यतिरिच्यते // 102 // तस्मादित्यादिना। जीवच्छरीरस्य संबन्धी पक्षधर्म इत्यर्थः / यस्मात् तयोरेकत्रापि न निवृत्तिनिश्चयस्तस्मात् ताभ्यां न व्यतिरिच्यते / ___ वस्तुधर्मे हि सर्ववस्तुव्यापिनोः प्रकारयोरेकत्रनियतसद्भावो निश्चितः प्रकारान्तरान्निवर्तेत / अत एवाह-सात्मकादनात्मकाच्च सर्वस्माद् वस्तुनो व्यावृत्तत्वेनासिद्धेरिति / प्राणादिस्तावत् कुतश्चिद् घटादेनिवृत्त एव / तत एतावदवसातुं शक्यम्-सात्मकावनात्मकाद्वा कियतो निवृत्तः। सर्वस्मात् 4 निवत्तो नावसीयते / ततो न कुतश्चिद् व्यतिरेकः॥ . दिनाऽसाधारणस्य संशयहेतुत्वनिमित्तद्वयमादितो दर्शितम्। किं तर्हि ? वातिककारेणवैतदभिहितमिति दर्शितम् / / - ननु चासाधारणस्य प्राणादेरनैकान्तिकत्वकारणद्वयमनन्तरोक्तमभिधीयताम् / तस्मादित्यादिना तु शरीरसम्बन्धित्वमस्य कस्मादाचार्यो दर्शयतीत्याशङ्कां निराचिकीर्षुः पक्षधर्मश्चेत्यादिनोपक्रमते। चो यस्मादर्थे / अपक्षधर्मस्त्वसिद्धत्वाख्यामन्यामेव दोषजातिमश्नुत इति भावः पक्षधर्मत्वं प्रदर्शयतो वातिककारस्योन्नेयः / वाशब्देनानियतप्रभेदेऽनास्थां दर्शयति / . न त्वसाधारणत्वाख्यं पक्षान्तरम्, सन्दिग्धविपक्षव्यावृत्तिकादेरसंग्रहप्रसङ्गात् / यस्मादपक्षधर्मो नानकान्तिक उपवर्णितेनाभिप्रायेण तस्मात्कारणात् / दर्शयति प्रकाशयति / __ केन दर्शयतीत्याकाङक्षायामाह-तस्मादित्यादिनेति / पक्षधर्मत्वप्रदर्शनं तु जीवच्छरीरसम्बन्धीति वचनं द्रष्टव्यम् / तस्मादित्यनेन यस्मादित्याक्षिप्तं दर्शयन्नाह-यस्मादिति / एकत्रापि न वृत्तिनिश्चयस्तस्य प्राणादेरित्यर्थात् / तस्मात्कारणात् ताभ्यां सात्मकत्वानात्मकत्वाभ्यां न व्यतिरिच्यते न निवर्तते, तदसंस्पर्शी न भवतीति यावत् / तयोरेकत्र वृत्त्यनिश्चयेऽपि कथं ताभ्यां न व्यतिरिच्यत इत्याह-वस्त्विति। हीति यस्मादर्थे। प्रकारयोस्तवृत्तिव्यवच्छेदरूपयोः स्वरूपयोराकारयोरिति यावत् / तयोर्धर्म एकत्र नियतः 'अत्रैवायं वर्तत इति नियमवान्' सद्भावः सत्त्वं यस्य स तथा। प्रकारान्तरानियतसद्भावविषयादन्यस्मादाकारात्। निवर्तेत निवर्तितुमर्हति, तन्न संस्पृशेदिति यावत् / एकत्र वृत्त्यनिश्चयाच्च नायं तथेत्यभिप्रायः / - यत एवमेतद् भवति, न चायं प्राणादिस्तथा, अत 'एवाहाचार्यः। किमाहेत्याहसात्मकादित्यादि। सर्वस्मादिति प्रत्येकं सम्बद्ध (न्द्ध)व्यम् / 'भवत् सर्वः A. ..नासिद्धिः // -E. 'ताभ्यामि'त्यादि नास्ति-E. 3 .रान्निवर्तते। तत एवाह-D..रान्निवर्तेत। तत एवाह-C.A.B.P.H.E.N. 4 'तु' नास्ति -C.