________________ 3. 101. ] असाधारणानकान्तिकनिरूपणम् / 217 प्रकाराभ्यां सर्ववस्तुसंग्रहं प्रतिपाद्य द्वितीयमाह नाप्यनयोरेकत्र वृत्तिनिश्चयः // 10 // नाप्यनयोः सात्मकानात्मकयोर्मध्य एकत्र सात्मकेऽनात्मके२ वा वृत्तेः सद्धावस्य निश्चयोऽस्ति / द्वावपि राशी त्यक्त्वा न वर्तते प्राणादिः, वस्तुधर्मत्वात् / ततश्चानयोरेव वर्तते / इत्येतावदेव ज्ञातम्। विशेषे तु वृत्तिनिश्चयो नास्तीत्ययमर्थः // तदाह ५सात्मकत्वेनाऽनात्मकत्वेन वा प्रसिद्ध प्राणादेरसिद्धः // 101 // सात्मकत्वेनाऽनात्मकत्वेन वा विशेषेण युक्ते प्रसिद्ध निश्चिते वस्तुनि प्राणादेर्धर्मस्य 'सर्ववस्तुव्यापिनोः प्रकारयोरेकत्र नियतसद्भावस्यासिद्धेरनैकान्तिकः, अनिश्चितत्वात् / तदेवमसाधारणस्य धर्मस्यानकान्तिकत्वे कारणद्वयमभिहितम् // प्रकाराभ्यामात्मव्यवच्छेदरूपाभ्यामाकाराभ्याम् / वृत्तिः प्रवृत्तिरर्थात् भाव एवावतिष्ठत इत्यभिप्रायेणाह-वृत्तेः सद्भावस्येति / यद्येवं तयोर्न वर्तत इत्येव किं न स्यात् ? तथा च कथं संशयहेतुरित्याशङक्य यादृशोऽस्यार्थोऽभिप्रेतस्तं स्फुटयितुमाह-द्वावपीति। कुतो न वर्तत इत्याह-वस्तुधर्मत्वादिति / प्रायादे (प्राणादे)रिति विभक्तिविपरिणामेन सम्बन्धनीयम् / वस्तुना वाऽवश्यं सात्मकेनाऽनात्मकेन वा भाव्यमिति भावः / ततो वस्तुसत्त्वेन सिद्धपरित्यागेनान्यत्रावृत्तेः कारणात् / अनयोः सात्मकानात्मकयोः / . एवकारेणान्यत्रा(त्र) वृत्तिनिषेधं स्पष्टयति / इतिरेतावतः स्वरूपं दर्शयति / यदिदमनन्तरोक्तमेतत् परिमाणं यस्य प्रमेयस्य तद् एतावद् वस्तुतत्त्वं निश्चितम् / कुतस्तहि नास्य वृत्तिनिश्चय इत्याह-विशेषे विति। विशेषे विशिष्ट प्रकारे। तुरिमामवस्थां भेदवतीमाह / तेन सात्मकत्व (सात्मक) एवानात्मक एवेत्यर्थः। वृत्तः स्वभावस्य प्राणादेरिति प्रकरणात् / इतिरेवमर्थे / अर्थोऽभिधेयो यस्य "नाप्यनयोरेकत्र वृत्तिनिश्चयः" इत्यस्य मौलस्य वाक्यस्येत्यर्थात् // / यस्मादेवमेतद् वक्तुं युज्यते, नान्यथा तत्तस्मा73b]दाह वार्तिककारः। किमाहेत्याह सात्मेति / तदेवमित्यादिनोपसंहरति / एवं च व्याचक्षाणेन [न] मया स्यातन्त्र्येण पक्षधर्मस्येत्या - 'सर्वसंग्रहं A. B.C. P. H. E. N. २०के निरात्मके C. 3 वर्तते एताव० C. 4 नास्तीत्यर्थः C.D. सात्मकत्वेन निरात्मक० B. P. H. E. N. 6 रसिद्धिस्ताभ्यां न व्यतिरिच्यते-E. सात्मकत्वेन निरात्मक० D. धर्मस्यासिद्धेरनैकान्तिकोऽनिश्चि० A.B.P.H. E.N.०धर्मस्यासिद्धरनिश्चि०C. 28